________________
सामाचा
रीशतकम् ।
॥ ४१ ॥
प्रोक्तवान् नैवं, सम्यग् परिज्ञानाभावात् तथाहि न तत्र पाक्षिकप्रतिक्रमणाधिकारः किन्तु विद्यासाधनविचार एव, तथाहि - ( पृष्ठविभागे ४५ पत्रे )
"विजाणं परिवाडी, पबे पत्रे य दिति ( देंति ) आयरिया । मासद्धमा सिआणं, पवं पुण होइ मज्झं तु ॥ २५२॥ पक्खरस अट्ठमी खलु, मासरस य पक्खिअं मुणेयनं । अन्नंपि होइ पर्व, उबराओ चंदसूराणं ॥ २५२॥” व्याख्या - आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीः ददति, विद्याः परावर्तन्ते इति भावः, अथ पर्व किमुच्यते ? तत् आह - मासार्धमा सयोः मध्यं पुनः पर्व भवति, | एतदेवाऽऽह - अर्धमासस्य पक्षात्मकस्य मध्यं अष्टमी सा खलु पत्र, मासस्य मध्यं पाक्षिकं पक्षेण निर्वृत्तं ज्ञातव्यं तच्च कृष्णचतुर्दशीरूपं अवसातव्यं तत्र प्रायो विद्यासाधनोपचारभावात् "बहुलादिका मासा" इति वचनाच, न केवलं एतदेव पर्व किन्तु अन्यदपि पर्व भवति, यत्र उपरागो ग्रहणं चन्द्रसूर्ययोः, एतेषु च पर्वसु विद्यासाधनप्रवृत्तेः ।। २५१ ॥ २५२ ॥ १८ ॥ अत्र सूत्रकारेण चतुर्दश्या नामाऽपि न गृहीतं । चूर्णिकारेण - ' कण्हपक्खस्स चउदसीए विज्जासाहणोवयारो ।' इत्यादिभिः अक्षरैः तच्च 'कृष्णचतुर्दशीरूपं' इत्याद्यक्षरैः वृत्तिकारेणाऽपि विद्यासाधनं उक्तं, न पाक्षिकप्रतिक्रमणं तच्च पाक्षिकं कृष्णचतुर्दशीरूपं प्रोकं मलयगिरिणा तदभिप्रायं न जानीमः, ततः कथं आगमविरोधः ? अथ यदि कृष्णचतुर्दश्यां एवं पाक्षिकं तदा एकस्यां चतुर्दश्यां पक्षो द्वितीयचतुर्दश्यां मासः एवं च कृते मासस्य मध्यं पाक्षिकं भवति, परन्तु पूर्वोतपक्षस्य मध्यं अष्टमी न भवति 'बहुलादिका मासा' इत्यपि विरुध्येत, किंच विशेषणं व्यवच्छेदकं इति कृत्वा तच्च कृष्णचतुर्दशीरूपं, एतद्बलेन चतुर्दश्यां पाक्षिकं कुर्वाणेन मासे मासे पाक्षिकप्रतिक्रमणं कर्तव्य भाद्रपद शुक्लपञ्चम्यां एव पर्युषणाप्रतिक्रमण
82
पूर्व पाक्षिकप्रतिक
मणं पंचद
श्याम् आ
सीत् इति
विचार:
८
॥ ४१ ॥