________________
- ३४ श्रीसर्वदेवसूरि ३५ श्रीअजितदेवसूरि ३६ श्रीविजयसिंहसूरि ३७ श्रीसोमप्रभसूरि ३८ श्रीमुनिचन्द्रसूरि ३९ श्रीअजितसिंहसूरि ४० श्रीविजयसेनसूरि ४१ श्रीमणिरलसूरि ४२ श्रीजगञ्चन्द्रसूरि ४३ श्रीदेवेन्द्रसूरि ४४ श्रीधर्मघोषसूरि ४५ श्रीसोमप्रभरि ४६ श्रीसोमतिलकसूरि ४७ श्रीजयानन्दसूरि ४८ श्रीदेवसुन्दरि ४९ श्रीज्ञानसागरसूरि ५० श्रीकुलमण्डनसूरि ५१ श्रीसोमसुन्दर सूरि ५२ श्रीजयचन्द्रसूरि ५३ श्रीमुनिसुन्दर सूरि ५४ श्रीरलशेखरसूरि ५५ श्रीलक्ष्मी सागर सूरि ५६ श्रीसुमतिसाधुरि ५७ श्रीहेमविमलसूरि ५८ श्रीआनन्द विमलसूरि ५९ श्रीविजयदानमूरि ६० श्रीहीर विजयसूरि ६१ श्रीविजयसेनसूरि ६२ श्रीविजयदेवसूरिप्रमुखाः ६३ । एवमन्येषु अपि आगमिक १ पूर्णिमापक्षीय २ विधिपक्षीयादि ३ गच्छेषु पट्टावल्यां एतादृशप्रभावक-श्रीअभयदेवसूरिनाम न क्वाऽपि लिखितमस्ति, ततो यस्य पितामहगुरुः श्रीवर्द्धमानसूरिः गुरुश्च श्रीजिनेश्वरसूरिः सतीर्थ्यश्च श्रीजिनचन्द्रसूरिः शिष्यो यस्य श्रीजिनवल्लभसूरिः प्रशिष्यश्च श्री जिनदत्तसूरिः स्वयं च श्रीस्तम्भनकपार्श्वनाथमूर्त्तिपटको नवाङ्गीवृत्तिकारकञ्च, एतादृशः प्रभावकः श्री अभयदेवसूरिः श्रीखरतरगच्छे एव जातः, नाऽन्यत्र । ॥ इति श्री अभयदेव सूरेः खरतरगच्छेशत्वाधिकारः ॥ ४ ॥
ननु - आत्मीयगच्छे प्रतिक्रमणान्ताः साधवः - "आयरिय उवज्झाए "चि, गाधा त्रिकं कथं न पठन्ति । उच्यते-आबश्यकादिषु साधूनां नामग्राहं तस्य अनुक्तत्वात् । ननु तर्हि श्रावकाः कथं कथयन्ति ? सत्यं, श्रीजिनवल्लभसूरिभिः निजसामाचार्या उक्तत्वात् तथाहि "दाऊण बंदणं तो, पणगाइसु अइसु खामए तिनि । किइकम्मं किरिअ ठिओ सो गाहा तिगं पढईं ॥ १६ ॥ अत्र आह परः ननु - श्रीप्रवचनसारोद्धार बृहद्वृत्तौ रात्रिप्रतिक्रमणाधिकारे ( ४० पत्रे ) “वंदणयं गा
$7