________________
पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो, गच्छः खरतराभिधः॥३॥ तेषामाचार्यवर्याणां, मान्यानां भूभृतामपि । कुष्ठव्याधिरभूदेहे, प्राच्यकर्माऽनुभावतः ॥ ४॥ ततः श्रीगुर्जरत्रायां संभाणकपुरं प्रति । शत्त्यल्पत्वेऽपि ते चक्रुर्विहारं मुनिपुङ्गवाः॥५॥ रोगग्रस्ततयाऽत्यन्तं, सम्भाव्य स्वायुषः क्षयम् । मिथ्यादुष्कृतदानार्थ, सर्व सई समाह्वयत् ॥ ६॥ तस्यामेव निशीथिन्यां, स्वप्ने शासनदेचता । प्रभो! स्वपिषि जागर्पि, किं ? वेल्या गुरुं प्रति ॥ ७॥ रोगेण क्वास्ति ? मे निद्रे-त्युक्ते |
देवी गुरुं जगौ । उन्मोटयत तर्खेताः सूत्रस्य नव कुर्कुटीः (कुत्कुटीः?) ॥८॥ शरभावास्किं कुर्वे ?, साऽऽह मैवं वचो | * वद । त्वमद्यापि नवाजया यदू-वृत्तिः स्फीताः करिष्यसि ॥९॥ श्रीसुधर्मकृतग्रन्थान् , कथमर्थापयाम्यहम् । पङ्गोः प्रत्येति
को नाम?, मेरोहणकौशलम् ॥१०॥ देव्याह यत्र सन्देदाः, ममर्तव्याऽदं त्वया तदा । यथा मिनद्मि तान् सर्वान् , पृष्ट्वा सीमन्धरं जिनम् ॥ ११॥ रोगग्रस्तः कथं मातः!, करोमि विवृतीरहम् । माऽवादीस्तत्प्रतीकारे, किन्तुपायमिमं शृणु ॥१२॥ अस्ति स्तम्भनकग्रामे, सेढीनाममहानदी। तस्यां श्रीपार्श्वनाथस्य, प्रतिमाऽस्त्यतिशायिनी ॥ १३ ॥ यत्र च क्षरति क्षीरं, प्रत्यहं कपिलेति गौः। तत्खुरोखातभूमौ च, द्रक्ष्यसि प्रतिमामुखम् ॥१४॥ तदेवं सप्रभावं तद्-बिम्ब विंदस्व भावतः । यथा त्वं स्वस्थदेहः स्याः, इति मोच्य गता सुरी ॥ १५॥ प्रातर्जागरितास्तेऽथ, स्वप्नार्थमवबुध्य च । सम समग्रसङ्घन, चेलुः स्तम्भनक प्रति ॥ १६ ॥ तत्र गत्वा यथा स्थाने, प्रेक्ष्य पार्श्वजिनेश्वरम् । उल्लसत्सर्वरोमाञ्चा, एवं ते तुष्टु
धुर्मुदा ॥१७॥ "जय तिहुयणमरकप्परुक्ख जय जिणधन्नंतरि, जय तिहुयणकल्लाणकोस दुरिअक्करिकेसरि । तिहुयणजणअविदालधियाण भुवणत्तयसामिय, कुणसु सुहाई जिणेसपास थंभणयपुरद्विय ॥१॥" वृत्ते तु पोडशे साऽर्चा, सर्वाङ्ग प्रकटाऽभ
Ss