________________
RCM
POST
ननु-अत्र पूर्वलिखितालापकेषु वापि स्थानषटुमुक्तं, क्वापि च वस्तु पटुं, परं क्वापि च्यवनगर्भापहारादीनां नामग्राहद कल्याणकशब्दाभिधेयत्वं स्पष्टमुद्दिष्टमस्ति !, उच्यते-अनेकशः तत्प्रतिपादनात्, यदुक्तं-श्रीचन्द्रकुलाम्बरतरणि-श्रीशीलभद्रसूरिः तच्छिष्यशाकम्भरीयनृपप्रतिबोधकश्रीधर्मघोपसूरिः-तच्छिष्यः श्रीयशोभद्रसूरिः तच्छिष्यः श्रीदेवसेनगणिः तच्छिध्यः श्रीपृथ्वीचन्द्रसूरिः तद्विरचिते श्रीपर्युषणाकल्पटियनके। तथाहि-"हस्त उत्तरो यासां ताः, बहुवचन बहुकल्याणकापेक्षं" इति ॥१॥ पुनरपि श्रीपर्युषणाकल्पाध्ययननिरुक्के श्रीविक्रमात्तत्त्वगुणेन्दुवर्षे १३२५ निर्मिते श्रीविनयेन्दुसरयोऽप्यवोचन् । तथाहि-"तेणं कालेणं” इति तस्मिन् काले यः पूर्वतीर्थङ्करैः श्रीवीरस्य च्यवनादिहेतुतिः कथितश्च, यस्मिन् । समये तीर्थकरच्यवनं स एव समय उच्यते, समयः-कालनिर्धारणार्थः, यतः-कालो वर्णोऽपि, तथा "हस्त उत्तरो यासां| ता हस्तोत्तरा उत्तराफाल्गुन्यः, बहुवचनं बहुकल्याणकापेक्षं, तस्यां हि विभोश्यवनम् १, गर्भाद्गर्भसङ्क्रान्तिः २, जन्म
३, व्रतं ४, केवलं ५, चाऽभवत् , निवृतिस्तु स्वातौ ६, ॥२॥ एवं श्रीजिनप्रभसूरयोऽपि सन्देहविषौषध्यां कल्याणकK शब्द प्रोचुः ( पत्रं २), तथाहि
“पञ्चसु च्यवन १ गर्भापहार २ जन्म ३ दीक्षा ४ ज्ञान ५ कल्याणकेषु हस्तोत्तरा यस्य स तथा, च्यवनादीनि पञ्च उत्तरफाल्गुनिषु जातानि, निर्वाणस्य स्वाती संभूतत्वादिति भावः" ॥ ३ ॥ एवं श्रीसङ्घपट्टकबृहद्वत्तौ (पत्रं ५९६) चैत्र कूटीयप्रशस्तिसत्ककाव्यव्याख्यानावसरे । तथाहि-"क्षुद्राणां लिङ्गिनां आचीर्णानि सिद्धान्तोकमपि श्रीमहावीरस्य षष्ठं गर्भापहारक ल्याणकं लज्जनीयत्वात् न कर्त्तव्यमित्यादिका आचरणा"॥४॥ पुनरेतत्सम्मतिप्रतिपादिकं गुणचन्द्रकृतप्राकृतधीरचरित्रम्