SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अखाण्या सामाचा रीशतकम्। ॥१५ ॥ तहिं स्वल्पवेलयाऽपि शुध्यति, घटिमावरात्रिशेपे मनुष्यसम्बन्धि रुधिरं पतितमुदतं च ततः सूर्योद्गमे शुद्धिः । १६ तथा मनुष्यास्थि निपतिते द्वादशवर्षाणि अस्वाध्यायः। १७ । तथा दन्तो वा दंष्टा वा पतिता बहायासेन विलोकिताऽपि चेन्न लब्धा, "तदा दंत उहडावणिों करेमि काउस्सर्ग" इत्युक्त्वा कायोत्सर्गः क्रियते, तत्र नमस्कार एकश्चिन्त्यते पारायित्वा कथ्यते च, तदनन्तरं अस्वाध्यायो न भवति।१८।तथा यदि मार्जारी जीवितं मूषकं गृहीत्वा याति तदा नाऽस्वध्यायः, अथ विनाश्य नयति तदाऽहोरात्रमस्वाध्यायः। १९ । तिर्यगवयवाः तदुधिरं च षष्टिहस्तमध्येनाऽस्वाध्यायं कुर्वन्ति । २० । मनुष्यावयवरुधिरपाते हस्तशतमध्येऽस्वाध्यायो, यद्यन्तरे उभयदिग्गामी शकटस्य मार्गों न भवति । २१ । तथा स्त्रिया मासि मासि ऋतुधर्मः समायाति, तदनन्तरं दिवसत्रयं यावदस्वाध्यायः। तथा कस्याश्चित्प्रदररोगोदयादिवसत्रिकस्योपर्यपि रुधिरं पतति तदा 'असज्झाय उहबावणिय' कायोत्सर्ग कृते पश्चात् शुध्यति । २२ । तथा आर्द्रानक्षत्रादारभ्य स्वातिनक्षपर्यन्तगर्जितं विद्युत्पातश्च न स्वाध्यायं उपहन्ति । तारकादर्शनमपि यावत् खातिनक्षत्रे आदित्यस्य गमनं भवति, शेषकाले पुनरवश्यं तारकादिकदर्शने शुध्यते, अथ केषांचित् साधूनां तथाविधनक्षत्रपरिज्ञानं न भवति, तत आषाढचातुमोसिकादारभ्य कार्तिकचातुर्मासिकं यावद् विद्युगर्जितेष्वपि नास्वाध्यायः, उल्का तु सदाऽपि स्वाध्यायमुपहन्ति प्रहरं यावत् । २३ । तथा सशब्दो घडहडशब्दरहितो भूकम्पः तयोर्जातयोः प्रहराष्टकं यावदस्वाध्यायः ।२४। तथा प्रदीपने लग्ने यावन्नोपशमः तावदस्वाध्यायः । २५ । तथा वर्षाकाल बुहुदवृष्टिः अहोरात्रोपरि यावद्वर्षति तावदस्वाध्यायः 1 २६ । विधिप्रपायां २५ पत्रे एवं पाठ: १५० 300
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy