________________
270
क्रियमाणमासीत् , ततस्तत्परम्पराऽऽयातैः अस्माभिरपि चतुर्थ्यामेव श्रीपर्युषणापर्व विधीयते इति न दोषः कोऽपि ॥g 4 ननु-यदि एवं प-"एव च कारणेणं अजकालगेहिं चउत्थीए पज्जोसवणं पयत्ति समससंघेण य अणुमन्निअं",
शते स्थानाङ्गवृत्ती भागतं । तदा समस्तसंघेन चतुर्था तस्याऽङ्गीकरणात् । सांप्रतं केषुचिद्गच्छेषु पञ्चम्यां तत्करणं कुतः? | - उच्यते-श्रीकालिकाचार्यपरम्परां न ते मन्यन्ते इति संभाव्यते । ननु तर्हि असढेण समाइन्नं' इत्याद्युक्तत्वेन कथं न
ते दोषभाजः॥ ! उच्यते-तत्रार्थे त एव प्रष्टव्याः, वयं च न कांश्चिदपि निन्दामः। मनु-आत्मगच्छे पश्चम्यां केवलं श्रीकल्पसूत्रं पाठमात्रतः|81 श्रीसंघाने वाच्यते न वा ? न वाच्यम्-इति उत्तरं, यतः सांवत्सरिकप्रतिक्रमणानन्तरिककल्पाष्टमाध्ययनपाठादनु-"कप्पस-1 मप्पावणियं करेमि काउसग्ग" इति वाक्येन कल्पसमाप्तिनैमित्तिककायोत्सर्गस्य तादौ प्ररूपणात् , सांवत्सरिकप्रतिक्रमणस्य चतुर्थ्यामेवाचरितत्वात् , चतुथ्योमेव तद्वचनं यौक्तिकं, न पश्चम्यां, अतश्चतुर्था सांवत्सरिककृत्यसमाप्तिकारकाणां पञ्चमी षष्ठीवद्दोषकृत् ज्ञेया । पुनर्यथा श्रीकल्पसूत्रे-“नो से कप्पइ तं रयणि उवाइणावित्तए" इति पञ्चमीमानित्य मोक्तं, तथा चतुर्थीमानकानां चतुर्थीमाश्रित्यापि ज्ञेयं, ततश्चतुर्थीमानकानां पञ्चम्यां श्रीकल्पसूत्रस्य पंघसमक्षं पाठवाचनेऽपि महान् दोषः। इति चतुर्थी श्रीपर्युषणापर्वकरणम् ॥ ११ ॥
॥ इति चतुर्थी श्रीपर्युषणापर्वकरणम् ॥ ६१ ॥