________________
नाथ प्रति न कश्चिद्विशेष गई मंगलं" इति तत्काल
तथापि हवइ मंगलमि
ननु-केषांचिद् गच्छे "होइ मंगलं" इति पठंति, आत्मनां गच्छे तु "हवइ मंगलं" इति तत्कथम् ? उच्यते-सत्यं, यद्यपि 'हवई' 'होइ' इत्येतयोः पाठयोः अत्रार्थ प्रति न कश्चिद्विशेषः, होइ मंगलमिति च पाठे प्रत्युत श्लोको नाऽधिकाक्षरी भवति, तथापि हवह मंगलमित्येव पठनीयं महानिशोथाद्यनेकागमेषु अस्यैव पाठस्य प्रतिपादितत्वात्, नमस्कारपटलनमस्कारपंजिकादिषु ग्रन्थेषु च इत्यमेव श्रेयोहेतुत्वेन समर्थितत्वात् , बहुश्वतैः आइतत्वाच्च प्रयोगः । होइ मंगलमिति पाठो मिथ्या विसंवादवत्त्वाद् यथा शुक्तिकाशकले च रजतज्ञानं । ननु-आवश्यके नमस्कारनियुक्ती 'पढम होई मंगलं' इति पाठेन संवादसद्भावात् , विसंवादवत्त्वादिति असिद्धू, सत्यं, किन्तु अयं नमस्कारनियुक्तिपाठो न नमस्कारपाउनियामकोऽव्य. भिचारात् , तथाहि-तत्रैव 'बीअं हवइ मंगलं' इत्युक्तं । ननु-'पढम हवइ मंगलं' इति पाठो न उक्तः छन्दोभंगहेतुत्वात्, छन्दो ह्यत्र श्लोकः, स चाऽष्टाक्षरप्रमाणपाद एव भवति नाऽन्यथा । अयं च नवाक्षरपाद इति चेत्, सत्यं, किन्तु आर्षश्लोकेषु बहुशो नवाक्षरस्याऽपि पादस्य दर्शनात् , तथाहि-दशवैकालिके भमरो आवियइ रसं १ तथा 'न य कोइ उवहम्मई'२ 'छत्तस्स य धारणट्टाए' ३ तथा 'अहं च भोगरायस्स तं चसि अंधगवहिणो' ४ तथैव श्रीउत्तराध्ययने (३४८ पत्रे) एकादशाध्ययनेऽपि, तथाहि
"जहा से कंबोयाणं, आइन्ने कथए सिया। आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥ १६ इत्यादि पूर्वश्रुतपरकचनानुयायित्वात् , 'हवाइ मंगलं' इति अयमेव पाठः सतामुपादेय इति स्थितम् । एवं विचारामृतसंग्रहेऽपि (७७ पत्रे)|| हवइ मंगलमिति पाठः समर्थितस्तथा च तत्पाठलेशः। अपरं च-आवश्यकादशेषु 'हवाई' 'होइ' इति पाठद्वयमपि दृश्यते,