________________
॥ अथ तृतीयः प्रकाशः॥ ॥श्रीमत्पार्श्वनाथाय नमः॥
ननु-श्रावकाणां काऽपि ग्रन्थे सामायिकपोषधप्रतिक्रमणवन्दनादौ मुखवत्रिका प्रोक्ताऽस्ति न वा उच्यते-अस्ति एव, कथं तत्रार्थे श्रूयतां-यत्र सिद्धान्ते प्रतिक्रमणादिक्रिया प्रोक्ताऽस्ति, तत्र साधूनेष उद्दिश्य प्रोक्ताऽस्ति, परं न पार्थक्येन श्रावकाणां, श्रावकैस्तु साध्वनुयायित्वेन सर्व साधुवत् क्रियानुष्ठान क्रियमाणमस्ति । अपि च श्रावकाणां कृतसामायिकानां चतुर्थोपकरणमध्ये मुखवत्रिका श्रीअनुयोगद्वारचूणौँ प्रोक्ताऽस्ति, तथाहि "सामाइअकडस्स समणोवासगस्स चउविहे धम्मोवगरणे पन्नत्ते, तं जहा ठवणायरियत्ति १ मुहपत्तिअतिर जवमालिअत्ति ३ दंडपाउंछणगत्ति ४" इति। पुनर्मुखवत्रिका प्रतिलेखितां बिना वन्दनकदाने श्रीव्यवहारचूौँ प्रायश्चित्तं उक्तमस्ति, तथाहि “जो मुहपोत्तिं अपडिलेहित्ता बंदणं देइ । गोयमा तस्स गुरूअं पायच्छित।" पुनर्मुखवस्त्रिका प्रतिलेख्य सिंहास्यश्रावकेण पौषधो गृहीतोऽस्ति, यदुक्तं श्रीन्यवहारचूलिकायां, तथाहि "गंतुं पोसहसालाए, ठवित्तुं ठवणायरियं मुहपोति पडिलेहिता सीहो गिण्हइ पोसह । १।" इति । पुनर्व्यवहारचूर्णी मुखवत्रिकाग्रहणपूर्व श्रावकस्य पौषधग्रहणं प्रतिपादितमस्ति, तथाहि "पावरणं पमोचणं गिण्हिता मुहपोत्तिवत्थकायसुद्धीए करेई पोसहाइअं" इति । २१ तथा श्रीआवश्यके अस्वाध्यायनिर्युकी (७३४ पत्रे) गाथा यथा
235