SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ “सिजभवं गणहरं, जिणपडिमादसणेण पडिबुद्धं । सिरिमणगपिअं दसकालियस्स निजूहगं बंदे ॥१॥इति ।" श्रीऋषिमण्डलसूत्रे तथा आवश्यकचूर्णावपि (२२३ पत्रे) अष्टापदप्रासादाधिकारे यथा “भरहो य तत्थ घेइयघरं करेइ बहुइरयणेणं जोअणायामं तिगाउतुस्सेहं सीहनिसादि सिद्धायतणपलिभागं अणेगखभसयसंनिविढे । एवं जहा चेयहसिद्भायतणं जंबूद्दीवपन्नत्तीए जाव झायाई" इत्यादि । पुनः श्रीआचाराङ्गबृहद्वृत्तौ (८२ पत्रे), तथाहि "अहत्सिद्धचैत्यतपःश्रुतगुरुसाधु-17 सङ्घमत्यनीकतया दर्शनमोहनीयं कर्म बन्नाति, येन चाऽसौ अनन्तसंसारसमुद्रान्तःपात्या इवाऽवतिष्ठते ।" औपपातिकसूत्रे (२५) उचितप्रदानं यथा “तए णं कोणीए राया तस्स पवत्तिवाइ[]यस्स अट्टत्तरसयसहस्सं पिइदाणं दलह" इति । निरयावलिकाश्रुतस्कन्धे पुष्पिकायां चतुर्थाध्ययने बहुपुत्रिकाऽग्रिमभवे साधर्मिकभोजनाधिकारो यथा “तए णं रद्वकूडे. विउलअसण-पाण-खाइमसा-इमं उवक्खडावेइ, उवक्खडावित्ता तहेव जाव पुषभचे सुभद्दा जाव अजा जाया" इति । अत्रेदं रहस्यम्-पूर्वोक्तपूर्वाचार्यैः निजपूर्वप्रतिपादितशाखेषु जिनप्रतिमापूजा-जिनप्रतिमाप्रतिष्ठा-जिनभवनकारापणसप्तदशभेदपूजा-दीपपूजौचित्यदानसाधर्मिकवात्सल्यादयो धर्माः प्ररूपिताः। पुनः श्रीपादलिप्वाचार्य-श्रीउमास्वातिवाचकादिभिः प्रतिष्ठाकल्पाः कृताः सन्ति, स्वयं तु ते संविना महानुभावाः शुद्धप्ररूपकाश्वासन, सतस्तेषामपि अन्धसम्मतिः मान्याः, कदामहं अपास्य धर्मार्थिभिरिति ॥४८॥ ॥ इति जिनप्रतिमापूजाया जिनप्रतिमापूजाफलस्य चाऽधिकारः ॥ ४८॥ 233
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy