________________
या महावीरेणं एवं धुले समा निसमातिए परमो मणरसे" इत्यादि । पुनः श्रीबृहत्कल्पे जिनप्रतिमादर्शनात् ज्ञानदर्शनचारित्रलाभरूपो भावग्रामः कधितोऽस्ति, तथाहि| "तित्थयरा १ जिन २ चउदस ३ भिन्ने ४ संविग्गं ५ तह य असंविग्गे ६ सारूविय ७ वय ८ देसण ९ पडिमाओ १० भावगामाओ ११ ॥४१॥"
॥इति जिनप्रतिमापूजाफलाधिकारः ॥४१॥ ननु-प्रतिभायाः पूजने षदायवर्धन महानारम्भो जायते, कथं ? पूर्व पाषाणादिघटने सचित्तपापाणच्छेदादिना पृथ्वीकायवधः १ प्रतिमायाः स्नानकारापणे एकस्मिन् जलबिन्दी केवलिनाऽसंख्याता जीवा दृष्टाः प्रतिपादिताश्चेति हेतोरप्कायवधः २ धूपोत्क्षेपे दीपप्रज्वालने चाऽग्निकायवधः ३ शङ्खादिवाद्यवादने वायुकायवधः ४ कुसुममालादीनां कण्ठादिपरिधापने वनस्पतिकायवधः ५ दीपादौ पतङ्गादिजीवमरणेन त्रसकायवधः ६ इति । जैनधर्मस्तु जीवदयामयः, तत्कथं मानयामि जिनप्रतिमापूजाम् ?, इत्यत्र उच्यते-ननु-जिनधर्मों निःकेवलं जीवदयारूपो वाऽऽज्ञासहितदयारूपो का ? नाऽऽधः पक्षः कक्षीकार्यः, भगवदुक्तागमपक्षण समं प्रत्यक्षं विरोधस्य लक्ष्यमाणत्वात् । कथं यदि श्रीवीतरागदेवेन निःकेवलं जीवदयारूपो धर्मः प्ररूपितोऽभविष्यत् तदा साधूनां नदीलडनादिकं कर्तव्यं भगवान् नाऽकथयिष्यत् ।, तत्रापि पृथिव्यादिजीवानां वधस्य प्रत्यक्षं जायमानत्वात् । नदीलङ्घनं च श्रीस्थानाङ्गसूत्रे पञ्चमस्थाने द्वितीयोदेशके प्रथमालापके ( ३०८ पत्रे), तथाहि-"नो कप्पइ निग्गंथाण वा निग्गंथीण या इमाओ उहिट्ठाओ गणिआओ वितंजिता
201