________________
मान्यत्वेन यौवनादिमदोत्कटतया नारदस्य न उत्थानादि चक्रे इति, यतः सूत्रे गणधरदेवोक्तं अनुत्थानादौ असंयतावि रतादिकं हेतुं मुक्त्वा नवीनस्वगलकल्पित हेतुं वदतः तत्र महोत्पुत्रदोषापत्तिः भविष्यति इति, अपि च यदि द्रौपदी श्रीविका न अभविष्यत् तदा नमोत्थु णं कथं अकथयिष्यत्, नहि श्रावकधर्म विना कोऽपि नमोत्यु णं पठति जिनप्रतिमाप्रे | कथयति वा । पुनः प्राह मनोमतिशिष्यः ननु द्रौपद्या जिनप्रतिमा पूजिता परं धर्मार्थ न, किन्तु विवाहसमयत्वात् संसा| राधे, तत्राऽर्थे शृणु रे मूर्ख ! यदि कोऽपि विद्यमानं तीर्थङ्करं पूर्व वन्दयित्वा वा साधुं वा पूर्व प्रतिलाभयित्वा सामायिकं वा पूर्व लात्वा पश्चात् भोजनं कुरुते, तर्हि किं विद्यमानतीर्थङ्करवन्दनादिपुण्यं संसारार्थे किं पतिष्यति ? प्रत्युत एवं प्रशंसा कर्तव्या तस्याः "अहो ! धन्या एषा द्रौपदी, अहो ! हृढं अस्याः सम्यक्त्वं, अहो | शस्यं अस्याः श्राविकात्वं, यदुत विवाहादिकर्तव्यव्यग्रतायां अपि जिनप्रतिमां पूजितवती" इति । न च वाच्यं अनया तु पूर्वजन्मनि निदानं व्यधायि, | तेन तस्मिन् सति कथं तस्याः सम्यक्त्ववत्त्वं श्राविकारथं चेति ? द्रौपदीकृत निदानस्य "निव १ धणि २ नारी ३ नर ४ सुर ५ अष्पष्पविहार ६ आयविआरतं ७ सङ्घत्त ८ दरिदत्त ९ चइज नवनिआणाइ ॥ १ ॥” इति निदाननवके न अन्तर्भावात् निदानता एव न भवति, यथा कथंचित् चतुर्थनिदानमध्ये अन्तर्भावेऽपि अध्यवसायविशेषेण तस्य निदानताया अभावाव तस्याः श्राविकात्वं न व्याहन्यते, अपि च तादृशनिदान सद्भावे ब्रह्मदत्तचक्रवर्तिवत् न विरतिः उदयं पति, द्रौपदी तु प्रत्रजिता अतो न तस्याः निदानता १ तथा श्रीभगवती सूत्रे २० शतके नवमोदेश के ( ७९३ पत्रे ), यथा विद्याचारणजङ्घाचा| रणसाधुभिः शाश्वतानि नन्दीश्वरादिसत्कानि अशाश्वतानि च भरतक्षेत्र सत्कानि चैत्यानि वन्दितानि सन्ति, तानि श्रूयतां -
163