SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ ८० ॥ | तथा चतुर्दशपूर्विणो जघन्यतोऽपि अस्तके धन्छन्ति, कार्तिकत्तु चतुर्दशपूर्वधरोऽपि सौधर्मे समुत्पन्नः ॥ १६ ॥ एवं | प्रत्यागमं शतशो विसंवादाः सन्ति किं क्रियते । ननु यदि एक एव श्रीदेवर्द्धिगणिक्षमाश्रमणः पश्चचत्वारिंशतोऽपि आगमानां संकलनां कृतवान् तर्हि कथं एतावन्तो विसंवादा लिखिता तेन ! उच्यते -एकं तु कारणं इदं यथा यथा यस्मिन् यस्मिन् आगमे मृतावशिष्टसाधुभिः यद् यद् उक्तं तथा तथा तस्मिन् तस्मिन् आगमे श्रीदेवर्द्धिगणिक्षमाश्रमणेन अपि पुस्तका रूढीकृतं नहि पापभीरवो महान्त इदं सत्यं इदं तु असत्यं इति एकान्तेन प्ररूपयन्ति इति, द्वितीयं तु कारणं इदं यथा बल्लभ्यां यस्मिन् काले देवर्द्धिगणिक्षमाश्रमणतो याचना प्रवृत्ता तथा तस्मिन् एव काले मधुरानगर्यो अपि स्कन्दिलाचार्यतोऽपि द्वितीया वाचना प्रवृत्ता तदा तत्कालीन मृतावशिष्टछद्मस्थ साधुमुख विनिर्गतागमालापकेषु संकल| नायां विस्मृतत्वादिदोष एव वाचनादिसंवादकारको जातः । यदुक्तं श्रीज्योतिष्करण्डकवृत्ती, तथाहि--" इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगणनादिकं सर्व अपि अनश्यत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्ख्योः मेलापको अभूत्, तद् यथा, एको बल्लभ्यां, एको मधुरायां तत्र सूत्रसंघट्टने वाचनाभेदो जातः, विस्मृतयोः हि सूत्रार्थयोः स्मृत्वा स्मृत्वा संघट्टने भवति अवश्यं वाचनाभेदः, न कदाचिदू अनुपपत्तिः, तत्र अनुयोग| द्वारादिकं इदानीं वर्तमानं माथुरी वाचनानुगतं, ज्योतिष्करण्डकसूत्रकर्ता व आचार्यो बाहभ्यः, तत इदं संख्यास्थानप्रविपादन भाल्लभ्य वाचनानुग इति न अस्य अनुयोगद्वारप्रतिपादितैः संख्यास्थानैः सह विसदृशत्वं उपलभ्य विचिकित्सि 160 84-377 गमस्थापनाघिकारः ३८ ॥ ८० ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy