SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 90244000RROREOGRAPES ६ दस अज्झयणा पन्नत्ता, तं जहा-उवमा १ संखा २ इसिभासिआई ३ आयरिअभासिआई ४ महावीरभासिआई ५ खोमग-|| पसिणाई ६ कोमलपसिणाई ७ अद्धा दागपसिणाई ८ अंगुट्ठपसिणाई ९ बाहुपसिणाई १०” इति अत्र अयं विरोधः-अत्र | उक्तं 'एतानि दश अध्ययनानि श्रीप्रश्नव्याकरणे सन्ति,' तानि कानि ? न एतादृशानि नामानि काऽपि सन्ति, नाऽपि अर्थवक्तव्यता सङ्गतिः, सांप्रतं तु पञ्च आश्रवद्वाराणि पञ्च संवरद्वाराणि च सन्ति ॥७॥ ___ एवं श्रीजीवाभिगमसूत्रे नारकाणां संहननं न उक्तं, अथ च उत्तराध्ययनसूत्रे एकोनत्रिंशदध्ययने मांसं नारकाणां उक्तम् ।। ८॥ तथा श्रीआचाराङ्गम द्वितीयश्रुतस्कन्धे जिम्मेषमाऽध्ययने तुर्थोद्देशके परसनवविकृतिग्रहणं अनगाराणां हैं। उक्तं, श्रीस्थानाङ्गे भगव त्यां च मांसनिषेधः प्रत्यपादि, दशवकालिके मद्यनिषेधः॥९॥ तथा दशवकालिकादौ उक्तम्-साधवः |पडीवनिकायरक्षकाः सच्चित्तपृथिव्यतेजोवायुवनस्पत्यादिसंघले आहारं अपि न गृह्णन्ति । पुनः श्रीआचाराङ्गे श्रीकल्पसूत्रे |च साधूनां नदीलङ्घन नधुत्तरणं वर्षति अपि मेघे आहारार्थ गमनं च समनुज्ञातम् ॥१०॥ श्रीभगवत्यादौ श्रावकाणां पश्चदश कर्मादानानि निवारितानि ।। उपासकदशासूत्र आनन्दकामदेवादीनां पञ्चशतहलवाहनेऽपि श्रावकत्वं श्लाषितम् ॥११॥ तथा प्रथमोपाङ्गे तापसाना उत्कृष्टा गतिः ज्योति केषु प्रोक्ता ॥ भगवत्यां तु तामलितापस ईशानकल्पे समुत्पन्नः ॥ १२॥ तथा सूत्रकृताने साधोः स्त्रीमङ्गतो त्रिविधं त्रिविधेन परिहारः प्रत्यपादि । श्रीस्थानाङ्गे तु साधुः प्रपतन्ती साध्वी स्वहस्तेन | अवलम्पयेत् इति उक्तम् ॥१३॥ ज्ञातायां श्रीकृष्णवासुदेवस्य अन्तःपुर्यों द्वात्रिंशत्सहस्राः लिखिताः, अन्तकृते च षोडशसहस्राः ।। १४॥ तथा अष्टमाङ्गे श्रीकृष्णो द्वादशमो जिनो भावी इति निगदितं, समवायाझे तु त्रयोदशम इति ॥ १५ ॥ 151
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy