________________
"जइ चेइआई अस्थि तो पडा वंद।" इशि वाक्येन सामायिकदण्डकात् चैत्यवन्दनान्तरिता ईपिथिकी प्रोक्का, सतत् कथम् ? उच्यते-- ना तत्र सामायिककरणे चैत्यवन्दनायाः सामाचारी विशेषात् नानात्वमवसेयम्, न व्यामोहो विधेयः । नानात्वेऽपि सर्वत्र
सामायिकदण्डकोच्चारादनन्तरम् , एवम् ईर्यापथिकीप्रतिक्रमणं प्रतिपादितं, न सामायिकदण्डकात् प्राक्, पुनस्तु चर्चा| विस्तरो नवपदप्रकरणवृत्त्यादिभ्यो ज्ञेयः।
ननु-"अपडिकंताए इरियावहियाए न कप्पइ चेव काउं किंचिवि चिअबंदण १ सज्झायझाणाइअं २ फलासायमभिक्खु४ गाणं ॥” इत्यादि श्रीमहानिशीथसिद्धान्ताक्षरदर्शनात् ईयापथिकीप्रतिक्रमणमकृत्वा च न किञ्चिदन्यत्कुर्यादशुद्धतापत्तेरिति । दशवैकालिकवृत्तिपाठबलाश्च ईर्यापथिक्यामप्रतिक्रान्तायां न कल्पते एव, किश्चिञ्चैत्यवन्दनास्वाध्यायादि ततो ज्ञायते चैत्यवन्दनकादिवत् ,किञ्चित्शब्दसूचितानि अन्यान्यपि सर्वाणि सामायिकादीनि धर्मकार्याणि अप्रतिक्रान्तायामीपथिक्यां| न शुभयन्तीति पूर्वपक्षः?, तत्रोत्सरमिदम् , सत्यं-परं महानिशीथवाक्यं चैत्यवन्दनस्वाध्याय-ध्यानप्रतिक्रमणादिरूपवहुक्रियागोपरत्वेन बहुविषयत्वात् सामान्यम् , आवश्यकादिवाक्यंतु केवलसामायिकगोचरत्वेनाऽल्पविषयत्वात् विशेषः, सामान्याच्च विशेषो बलीयानिति । यदुक्तं चैयाकरणे 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेदिति' यथा दधि इहेति स्थाने "इयं स्वरे"] इति सामान्यसूत्रस्य बाधक "सवर्णे दीर्घः सह" इति विशेषसूत्रं । भवतु नाम महानिशीधवचनप्रामाण्यात् चैत्यवन्दनस्वाध्यायादौ प्रथमम् ईर्यापधिकीप्रतिक्रमण, परं सामायिकग्रहणविधी तु नामग्राहं विधिवादेन चरितानुवादेन सर्वत्र सामायिकदण्डकोच्चा