________________
पीनत्व - मुद्दाममदमेदुरौ | मुच्येतां मथुरापुर्या, बहिः स्वच्छन्दचारिणौ ॥ २५७ ॥ तावुभाविभवन्मत्तौ, हेलया यो हनिष्यति । केसरीवान्तकृत्तेऽसौ, राजकुञ्जर ! नान्यचा || २५८ || शाङ्गं यदस्ति ते घानि दुःस्पर्शमितरैर्जनैः । तस्याधिज्यस्य यः कर्ता, प्राणहर्ता तवापि सः ॥ २५९ ॥ शार्ङ्गं तु शार्ङ्गपाणेस्तद्भविष्यति भविष्यतः । एतच्चादिष्टमुत्कृष्ट - ज्ञानैर्मुनिवरैः पुरा ॥६॥ युग्न मलस्तेऽप्रतिमल्लो यः शूरश्चाणूरसंज्ञकः । यस्तं हन्ता स ते हन्ता, मा कृथाः कंस ! संशयम् ॥ २६१ ॥ गजौ स्तस्ते श्रियः पद्मौ यौ पद्मोत्तर- चम्पकौ । एतयोर्जीवितान्तस्य, यो विधाता तवापि सः ॥ २६२ ॥ वास्तव्य योऽस्ति कालिन्यां, कालियो नाम पन्नगः । यस्तस्य दमकः स्वैरं प्राणानां शमकः स ते ॥ २६३ ॥ श्रुत्वेति प्रोल्लसत्कम्पः कंसः कातरलोचनः । तं विसृज्य समादिक्षत्, तूर्णमामन्त्र्य मणिम् ॥२६४|| स्वादुभिर्मृदुभिर्षास - रेतावानीय पीनताम् । वृपा व स्वेच्छया मुञ्च, यमुनावनराजिषु ।। २६५ ।। चाणूरमुष्टिको पुष्टि -सुपानय रसायनैः । यथा नियुद्धे जीयेते, तौ च मल्लौ न केनचित् ॥ २६६ ॥ मत्रिणा प्रौढमत्रेण यथादिष्टमनुष्ठितम् । निस्तन्द्रचन्द्रशालिन्या, शरदाच विजृम्भितम् ॥ २६७ ॥ जगुर्जगचमत्कारि, कलं कॅलमगोपिकाः । मदः सप्तच्छदामोदैः सहैव करिणामभूत् ।। २६८ ।। सरोजानां रजःपुञ्ज - रयुज्यन्त जलाशयाः । दिगन्तास्तु व्ययुज्यन्त, पयोदानां कदम्बकैः ॥ २६९ ॥ गोपकण्ठे सोत्कण्ठगोपीयुक्तोऽथ रासकैः । चन्द्रिकोभिद्रचन्द्रासु, कृष्णविक्रीट रात्रिषु || २७० || दिवसे तु स धेनूनां वृन्दं वृन्दावने वने । पालयामास गोपाल - बालकैः परिवारितः ।। २७१ ॥
१ मोऽस्त्यप्रति ० इति प्रत्य० । २ " नैव मल्लेन केनचित् " इति प्रसिद्वय० १ (३ कलमः शालिधान्यविशेषः । ।