________________
अभिरूषण रूपेथा, जितः कृष्णेन मन्मथः । जघान स तु गोपत्री, कोपात् तत्रानुरागिणीः ।। २२६ ॥ ताडिताः पञ्चभिबाणैः, पञ्चबाणेन तास्तदा । कृष्णमेव न्यपेवन्त, संजेतारमहर्निशम् ।। २२७ ।। काश्चिदत्युचरोमाश्चाः, सानन्दाश्चन्दनद्रवैः। मांसलेंसस्थले तस्य, लिलिखुः पत्रवल्लरीः ॥२२८॥ उच्चित्त्य शिखिपिच्छानि, प्रोच्छलत्पुलकाङ्कराः । चक्रुः काश्चन कृष्णस्य, मौलिमण्डनमद्भुतम् ॥२२९।। वेपमानकराः काश्चि-अवैः कुसुमदामभिः विक्षःस्थलमलंचक्रु-स्तस्य श्रीवत्सलाञ्छितम् ।। २३०॥ गोप्यस्ताः परितः कृष्णं, मण्डलीबन्धबन्धुरम् । प्रदत्ततालमुन्मील-लील हल्लीसकं जगुः ॥२३१॥ रतिस्तावत् सुखं तावत्, तावदानंदेथुः पृथुः। गोपालमुशा तासां, यावत् कृष्णस्य दर्शनम् ॥ २३२ ।। ताभिरध्यापितः सोऽथ, ललितं मान्मथं तथा । यथा कामकथावादे, पराजीयन्त तेन ताः ॥ २३३ ॥ बन्धुना बलदेवेन, रक्ष्यमाणः प्रतिक्षणम् । इति कृष्णः सुखं क्रीडन , गोकुले कालमत्वगात् ।। २३४ ।।
इतश्च श्रीशिवादेवी, स्थिता शौर्यपुरे पुरे । एकदा कार्तिक कृष्ण-द्वादश्यां क्षणदाऽत्यये ।। २३५ ॥ गर्भावतारपिशुनान्, महास्वमांश्चतुर्दश । दृष्ट्वा चित्रागते चन्द्रे, निद्रामुद्रां व्यमुञ्चत ॥२३६।। (युग्मकम् ) प्रहृष्टा याबदाचष्टे, देवी देवाय तान् प्रगे । क्रोष्टुकिस्ताबदागच्छ-चारणश्रमणोऽपि च ॥२३७।। तान् निशम्य वरस्त्रमां-स्तत्फलं तावशंसताम् । तीर्थकराणां जननी, राजनेतान् समीक्षते ॥२३८॥ ततो जगत्रयत्राण-व्यवसायविशारदः । लोकोत्तरप्रभावोऽयं, भात्री तीर्थकरः सुतः ॥ २३९ ॥ श्रुत्वेति राजा रानी च, पीवर प्रीतिमीयतुः । शानिनो (नौ) बहुमानेन, नत्वा व्यसुजता च तौ ॥२४०॥
१ कामजेतारम् । २ आनन्दः ।।