________________
॥4
कानने । नामसाम्यादिव क्रुद्ध- गैर्नामा निरासिरे ॥ ३३ ॥ तत्र तस्य लवलैला-लवलीस्वादलालसाः। मल्लकी| पल्लवग्रासे, वैमुख्यममजन् मजाः ॥३४ ॥ पाण्डवः सह मुक्ताभिः, पाण्ड्यानामाहरन् यशः। ताम्रपर्णीयुजि प्राप, दक्षिणाम्भोधिरोषसि ॥ ३५ ।। तत्रोत्तम्म्य जयस्तम्भान् , सेतुबन्धैकबन्धुरे । दैराज्यं रामकीर्तीनां, चकार निजकीर्तिभिः ॥३६ ॥ स्वादं नागरखण्डाना, वनवासस्थलीपु सः । लम्भयन् सैनिकांस्तस्थौ, कुन्तलीलोलुपश्चिरम् ॥ ३७ ॥ कौङ्कणीकक्षणान भञ्ज-मालिकेरीलामैः सह । लाटीकटाक्षालण्टाका, सोऽथ व्यावर्तत क्रमात् ॥ ३८ ।।
यशः कुसुमसौरम्यवामितक्षितिमण्डलः । नकुलोपि विवेशान्तः, प्राचेतस्या दिशस्तदा ।। ३९ ॥ प्रापयनन्तमत्पन्त| मावन्तीनयनाञ्जनम् । उच्छिन्दन बहलच्छायाः, सौराष्ट्रीपत्रवल्लरीः॥ ४० ॥ महार्णव-सरस्वत्योः, प्रियमेलकपावितम् । | | प्रभासक्षेत्रमशोभ्य-बलोमिनकुलो ययौ ।। ४१॥ (युग्मम् ) प्रक्षाल्य मलमदीक्ष्य, तत्र चन्द्रप्रभप्रभुम् । जयस्तम्मान महारम्भो, न्यस्यति स्म स धीरधीः ।। ४२ ॥ शृण्वन् स द्वारिकालोक-गीतं कसंजितो यशः। पूर्गपूमवता कच्छान् , कच्छेनैवाम्बुघेर्ययौ ॥ ४३ ॥ गापयित्वा निजां कीर्ति-विस्फूति तत्र चारणान् । पारसीकाननीकेन, स चकारात्मकिकरान ॥४४॥ तत्रास्य पिण्ड-खजूर-स्वादमेदस्विसंमदैः। चिरमध्यषिरे फच्छाः , सैनिकैः पश्चिमाम्बुधेः ॥ ४५ ॥ यवनीवदना
म्मोज-विकासतुहिनोत्करः । शकीसंमोगशृङ्गार-समुद्रकलशोङ्गवः ॥ ४६ ॥ मायस्पश्चनदस्त्रैण-मदामोदमलिम्लुचः । N सैन्धवीवर्गवेधण्य-व्यसनी स न्यवर्तत ॥ ४७ ॥
१ कुन्तलदेशस्त्रीषु लुब्धः । = कृष्णस्य । ३ पूगवृक्षसमूहबता । ४ तीरेण । ५ कलशोद्भवः-अगस्त्यः ।