________________
गाय विदुर-द्रोणा, हास्तिने व्यवतस्थिरे || ३ || पाण्डोस्तपःसुते बाढ़, रेजिरे राज्यसंपदः । भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ॥ ४ ॥ सौम्ये च दुःप्रवर्षे च तस्मिन् पल्लविता भृशम् । वनराजीव राज्यश्रीः शिशिरोष्णे मधाविव ॥५॥ प्रतापदुःसहे तस्मिन् पुष्णाति स्म तरक्षितः । कीर्तिोलित, वर्तनी ||६|| तत्तेजोऽग्निस्तनूर्भूषाः, प्रताप्य विरसा द्विषाम् । तारैर्यशोभिराश्चर्य, पूरयामास रोदसी || ७ || ध्वान्तध्वंसिनि सत्येव, गलद्वयसि राजनि । भास्वत्युदित्वरे तस्मि - अनन्दुरधिकं प्रजाः ॥ ८ ॥
दिग्जगीषाकृतोन्मेषं, तस्य झात्वा मनोऽन्यदा । कनीयांसः समं नत्वा चत्वारोऽपि बभाषिरे ॥ ९ ॥ किं नाम जगदुयोत - हेवाकेषु गभस्तिषु । तमः संभारभेदाय, भानुरुद्यच्छते स्वयम् ? || १० | देव ! दक्षिणवातेन्दु- वसन्तादिषु सत्स्वपि । मानिनीमानभङ्गाय, कामः किं धात्रति स्वयम् १ ॥ ११ ॥ पुरःसरेषु किं नाम, तरङ्ग-समिरो-र्मिषु । जलाशयः स्वयं पान्थ वेदच्छेदाय सादरः १ ॥ १२ ॥ सत्सु तत्रिजगज्जैत्र-भुजेषु निजबन्धुषु । दिशां जयाय देवेन न प्रस्थातव्यमात्मना || १३ || इत्याकर्ण्य वचस्तेषां जहर्ष जगतीपतिः । निदेश्यैर्हि जयो राज्ञां कीर्तिमावहते पराम् || १४ || क्रमाम्भोजनतानीति - चतुरचतुरोऽपि तान् । अंसयोरामृशन् प्रीत्या स दिशो जेतुमादिशत् || १५ || राजाज्ञेत्यन्वमन्यन्त चतुरङ्गां चमूममी । मृगेन्द्रः करिणो हन्ति, किं मृगैः परिवारितः १ ॥ १६ ॥
कुन्ती माद्यादिभिर्गोत्र- वृद्धाभिः कृतमङ्गलाः । तेऽथ प्रतस्थिरे सैन्यैवत्वारोऽपि पृथक पृथक || १७|| भीमः प्राचीं दिशं जिष्णु-रपाचीं नकुलः पुनः । प्रतीचीं सहदेवस्तु किलोदीचीमशिश्रियत् ॥ १८ ॥ चतुर्भिरप्यनीकैस्तै- गक्रान्तां