________________
भूरभूत् ।। ४४८ ॥ तस्यां लावण्यपीयूष-सरस्यां रागिणां दृशः । मअन्त्यः प्राप्य वक्षोज-कुम्भौ प्रीति ययुः पराम् ॥४४९॥ यूनां सदीयवैदय लाभुरावति गारः । स्वच्छन्दमदनन्याध-विद्धं न पदमप्यगात् ॥ ४५० ।। द्वावप्युर्वीपतेः पुत्री, तस्यामासक्तमानसौ ! तौ मिथः कलहायेतां, करिण्या करिणाविव ॥४५१|| कुर्वाणो कलह नित्य-मत्यन्तोत्रासितत्रपौ । खेदादन्येचुराहय, तौ महीपतिरन्वशात् ॥४५२॥ वत्सौ ! किमिदमारब्धं, मलीमसकुलोचितम् । कलहायेत नान्योऽपि, वेश्यार्थे | किमु गन्धवौ ? ॥ ४५३ ।। स्वल्पाऽप्युज्जृम्भते यासु, न प्रेमसलिलार्द्रता । सुखशाखिप्ररोहोऽस्तु, कस्तास्वद्रिशिलास्विन:
॥ ४५४ ॥ बिलोकन्तेऽन्यमन्यस्य, कण्ठाश्शेष वितन्वते । चित्ते दधति याश्चान्यं, तासु वेश्यासु का रतिः ॥४५५!! यासा काऽप्याता ताव-याबद्दानाम्बुवृष्टयः। वेश्यासु मरुदेश्यासु, तासु रज्येत कः सुधीः ॥४५६॥ निर्धनत्वादिपुष्पस्य, नरकादिफलस्य च । मुलं वेश्यैव जानीतं, महान्यसनशाखिनः॥ ४५७॥ नित्यमित्यादिभिर्वाक्य-भूभृता बोषितावपि । तौ नितान्तमयुध्येता-मत्यन्तोसिक्तमत्सरौ ॥ ४५८ ॥ तयोः संरब्धयोरेवं, द्रष्टुं मृत्युमनीश्वरः । विषम विषमास्वाद्य, परलोकं ययौ नृपः ॥४५९ ॥ यत्युर्विपत्तिलोकेन, विक्लवे ते अपि द्रुतम् । विपेदाते तथैवाभि-मन्दिता-शिखिनन्दिते ॥४६० ॥ बद्धानुरामावत्यन्तं, तस्यां तदपि निखयो । मिथः क्रोधोद्धतौ युद्धा, मृत्यु तावप्यवायतुः ।। ४६१ ॥ इत्थं कुटुम्बसंहारः, स्त्रीनिमित्तोऽभवत् पुरा । अनर्थबीजं राजीव-चक्षुषो हि प्रचक्षते ॥ ४६२ ॥
वत्सास्तद्वो सिंमना-मेकामेव मृगीरशम् । क्षेमं खलु न पश्यामि, तत एवागतोऽस्म्यहम् ॥ ४६३ ॥ तत्सर्वैरपि युष्माभि२ अनिनिर्ली। : कुपिनयोः । ३ कमन्दनेत्राः श्रियः ।