________________
मुनिसुनतकाव्यम् । घातीन्यपि प्रबलशक्त्यतिगर्वितानि देवस्य योगकरवालदितान्यभूवन् ।। वात्मनः किमिति चिंतनयेव दग्धरज्जूपमं सममघातिबलं बभूव ॥६॥
घातीत्यादि । प्रबलशक्त्यतिगर्वितानि प्रयला चासो शक्तिश्च प्रवलशक्तिः अत्यन्तगर्वितान्यतिर्वितानि प्रयलशक्त्यतिगर्वितानि तथोकानि प्रबलसामनाहकारित तानि। घातीन्यपि घानयत्येवं शीलानि धातीनि आत्मस्वरूपतिरोधकानि कर्माण्यपि अपिशब्देन अबातिषु त्रिषष्टिपरिमितदुरिसान्यपीत्यर्थः । देवस्य जिनेश्वरस्य। योगकरवालदितानि योग पर करवालो योगफरवालः तेन दितानि खंडितानि तथोक्तानि शुक्लध्यानखङ्कन छिनानि । अभूचन् आसन् । भृ सत्तायां लुइ । आत्मनः स्वस्य । वर्त्म मार्गः किं इति को चेति । चिंतगयेव चिंतनेन एव । अघातिवलं अघातिनां बलं तथोक्त अधातिकर्मसेनासमं सहघातिक्षयसमं एव इत्यर्थः । दग्धरज्जूपम' दह्यतेस्म दग्धा सा बासौ रज्जुश्च दग्धरज्जुस्तस्यास्सम निःशक्तिकमिति यावत् । बभूव भवनिम्म भू सस्तायां । लिट् ॥६॥
भा० अ०-जिनेन्द्र मुनिसुपत भगवान् के शुक्म्यान कपी खड्ड से अत्यन्त शक्तिमत्तासे सगर्व धानिया कर्म भी छिन्न भिन्न हो गये। तदनन्तर अपना कौन सा मार्ग रहा इस चिन्तन से ही जली हुई रस्सी के समान अघातिया कर्म भी शक्ति हीन हो गया । ६। इत्यस्तपापरिपुराप सहैव लब्धि वैशाखकृष्णदशमीश्रवणेऽपराहने ॥ सक्षायिकीर्णवदशातिशयास्पदं च प्राप्तोदय नभसि पंचसहस्रदंडः ॥७॥
इत्यस्सेत्यादि। इति उत्तप्रकारेण। अस्तपापरिपुः पापमेव रिपुः पापरिपुः अस्तः पापरिपुः येन सः तथोक्तः नष्टकर्मशत्रुः। सः तीर्थकरपरमदेवः । वैशाखकृष्णदशमीश्रवणे वैशाख्या पौर्णमास्यां युक्तो मासः वैशाख: “सास्यपौर्णमासी" इत्यण वैशाखस्य कृष्णस्तथा कः बैशाखकृष्णस्य दशमी तथोक्का वैशाखकृष्णदशम्या श्रवणस्तथोक्तस्मस्मिन् वैशाखमासस्य कृष्णपक्षस्य दशमीतिथौ श्रवणे | अपराङ्के अहोऽपरः अपरागस्तस्मिन् “संख्याज्ययसर्वा शात्" इत्यट अलादेशश्च सायाह । क्षायिककर्मक्षयेन जाता नवलब्धिः सम्यक्त्व. चारित्रमानदर्शनदानलाभभोगोपभोगवीर्याणीति नवकेबललब्धिः दशातिशयान् दश च ते अतिशयाश्च दशातिशयास्तान् घातिक्षयजगव्यूतिशतचतुष्टयमुभिक्षाविदशातिशयान् । नभसि आकाशे । पंचसहनः पंव च तानि सहस्त्राणि च पंचसहस्राणि पंचसहस्रःप्रमिताः दंडाः तथोकाः सै: अथवा पंखचारान् सहस्राणि पंचसहस्रा: "सुज्याधै" इत्यादिना समासः पंचसहस्राश्च ते दंडाश्च तथोक्तास्तैः पंचसहनचापः । प्राप्तोदयं