________________
'नियइपन्चया' इति नियत्या - तैयत्येन पर्वता नियतिपर्वताः, कचित् 'निययपव्या' इति पाठस्तत्र नियताः - सदा भोग्यत्वेनाव - स्थिताः पर्वता नियतपर्वताः, यत्र वानमन्तरा देवा देव्यत्र भगवारणीयेन वैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगती पर्वतकाः' पर्वतविशेषाः 'दारुपर्वतकाः' वारुनिर्मापिता इव पर्वतका: 'दगमंडवगा' इति 'दकमण्डपका : ' स्फटिकमण्डपकाः, उक्तं च मूलटीकायां - "कमण्डपकाः स्फाटिकमण्डपका" इति एवं दकमञ्चका कमालका दकप्रासादाः एते च दकमण्डपादयः केचित् 'ऊसडा' इति उत्सृता उच्चा इत्यर्थः केचित् 'खुड्डा' इति क्षुल्ला लघवः कचित् 'खडख (ह) डगा' इति लघव आयताञ्च तथा अन्दोलका : पक्ष्यन्दोलकाच, तत्र यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यासानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलकाः पक्ष्यन्दोलकाश्च तस्मिन् वनपण्डे तत्र तत्र प्रदेशे वानमन्त र देवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूता: १ इत्याह---' सर्वरत्नमयाः सर्वाना रत्नमयाः, 'अच्छा सण्हा' इत्यादि विशेषणजातं पूर्ववत् ॥ ' तेसु ण' मित्यादि तेषु उत्पातपर्वतेषु यावत्पयन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनानि तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं कौचासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि - निम्रासनानि दीर्घासनानि शय्यारूपाणि भद्रासनानि येषामधोभागे पीठिका बन्धः पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि - पद्माकाराणि आसनानि 'दिसासोवत्यियासणाणि येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्र| ममासनानां सङ्ग्राहिका सङ्ग्रहविगाथा – “हंसे १ कोंचे २ गरुडे ३ दण्णय ४ पणए य ५ दीह ६ महे य ७ । पक्खे ८ सय ९