________________
॥२१॥
इतः ख़रनामा राक्षस: पाताललंकाधिपतिर्वभूव, तस्य रावणभगिनी सूर्पणखाभिधाना प्रियास्ति, तस्य पुत्रो विद्यासाधनतत्परो बंशजालिमध्ये तपस्तप्यमानोऽभत ।
अथ सः सूर्पणखा स्वपुत्रतपोऽवधिकाल संपूर्णीभूतं विज्ञाय तन्छुद्धयर्थ तत्रागता, दृष्टं च तया निजपुत्रशरीरं शिरोविहीनं । ततो विविधान विलापान कुवंती पदानुसारेण सा रामलक्ष्मण समीपे समागता । जितकामं रामरूपं दूरादेव विलोक्य मन्मथोन्माथितहृदया मा निजतनयमरणोद्भवं दुःखं विस्मृत्य तं प्रति हंत भोगबिलासप्रार्थनां चकार 1 तदा रामेणोक्तमहं तु सभार्योऽस्मि, अतो लक्ष्मणांतिके ब्रज । ततरतया वृक्षतलासीनस्प लक्ष्मणस्य पाश्चे समागत्य तथैव भोगप्रार्थना कृता । लक्ष्मणेनोक्तं प्रथम त्वया में ज्येष्ठबंधुः प्रार्थितोऽतो मे त्वं जननीतुल्यासि । तत: सीतया हसित्वा तां प्रत्युक्तमेवं प्रार्थनाभंगतस्त्वं कापि दुभंगवानुमीयसे । तत् श्रुत्वा क्रोधानलाध्मातमानसा मूर्पणखोवाच समयेऽहं तवाप्यभिमानमुत्तारयिष्यामीत्युक्त्वा सा निजपतिखर राक्षससमीपे गना । कथिता च शंबकमरणवार्ता । ततो रुष्टोऽयं खरराक्षसश्चतुर्दशसहस्रसुभटयुतो युद्धार्थ तत्रागतस्तदा लक्ष्मणः सीतारक्षणकृत राम तब मुक्त्वा सन्नद्धः स्वयं तैः सह यो प्रच चाल | रामेणोक्त-हे बंधो ! तत्र यदि किमपि संकटमापतेत्तदा त्वया सिंहनादः कार्य इति भ्रातुर्वचनं प्रतिपद्य लक्ष्मणी राक्षससंन्याभिमुखमागत्य विविधास्वरेकोऽप्यनेकीभूत इव राक्षसान पातयामास । लक्ष्मणप्रहारतो जर्जरीभूतं राक्षस संन्यं विलोक्य सूर्पणखा पिकूटपर्वते निजभ्रातृरावणसमीपे समागत्य सर्व वृत्तांतं कथयित्वा सीतारूपलावण्यादिप्रशंसां चकार । तत् श्रुत्वा मदनव्यथाव्यर्थी