________________
I
श्री दानादि
कुलकवृत्तिः
11301.
दंडकाभिधो नृपः पालकनामा च तस्य प्रधानो बभूव । स प्रधानोऽभव्यत्वाद् द्वेषबुद्धयाऽत्रागतान् वरणकरणोद्यतान शमसंवेगादिगुणगणमंडितान, श्रीस्कंधकाचार्यपंचशतशिष्यान् गुरुसहितान यंत्रे निष्पीड्य व्यापादितवान् । शिष्यास्तु सर्वेऽपि शुभध्यानोत्पन्नक्षपकोणिसमारूढा अंतकृत्केवलित्वमामाद्य मोक्षं गताः, किं तु तद्दुष्टकृतशिष्यविडंबनतः कषायोद्भवनात्स्कंधकाचार्यो निदानं कृत्वाग्निकुमारेषु देवत्वेन समुत्यन्नः । मक्रोधेन तेनाग्निकुमारेण तद्देशराजादि सर्व ज्वालितं । तेन चैतद्दंडकारण्यं जातं । यश्च दण्डकराजो जीवोऽभूत्स संमारेऽनेक योनि आप कुष्टरोगाक्रांतपक्षी जातः । स च मां विलोक्य जातिस्मरणं प्राप्य जिनधर्मांगीकारतो नीरोगो जातः । अतो हे रामचंद्र ! अयं जटायुःपक्षी तव साधम्योऽस्ति । तत् श्रुत्वा रामेण तं जटायुषं मित्रीकृत्य निजसार्थं गृहीतः । अथ ते सर्वेऽपि ततः प्रयाणं कृत्वा दक्षिणदेशे गोदावर्या उपकले प्राप्ताः । तत्र लक्ष्मणो वनलीलाकौतुकं निरीक्षमाणी वंशजालनिकटे खड़गेकं पतितं ददर्श । निजक्षत्रिय जातिस्वभावतस्तं करालकरवालमादाय तत्तैक्ष्पपरीक्षार्थं तेन सा वंशजालिश्छिन्ना । इतस्तत्राग्निकुंडोपरि अवनतशिरा धूम्रपानं क्रियमाणो विद्यःसाधनपरः कोऽपि पुरुषस्तत्करवालघाततो विलूनमस्तको बभूव । तं तथावस्थं दृष्ट्वा दययाद्रीभूतमानसो लक्ष्मणः शुचं गतो विचारयामास । हा मयाऽनर्थदंड रूप क्रीडा मात्रेणैव कोऽपि तपस्तप्यमानो निरपराधिजनो व्यापादितः । अथ स शुचाकुलमानसस्तं करवालमादाय रामसमीपे समागत्य सर्वमपि तं वृत्तांतं कथयामास । रामेण खड्गमालांक्योक्तमेष खलु चंद्रहासखड्गोऽतस्तत्साधनपरः कोऽपि जनस्त्वया क्रीडामात्रेण हनः । नूनमत्र कोऽपि तस्योत्तरसाघको भविष्यति ।
शील
केन्द्रक
सीना
कथा
१९०