SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ दानः दि बत्तिः ॥८२॥ रामादिभिश्च श्रावकत्वं प्रतिपन्नं । शिवादेवोरोहिणीरुक्मिणीभिश्च श्रावकत्वमापन्नं । एवं प्रभुणा चतुविधसंघस्थापना कृता । प्रभोः शासने गोमेधनामा यक्षोंबिकाख्या च देवी जाता । एवं सप्तशनवर्षाणि केवलपर्याय कुलक पालयित्वा सर्वायुश्व सहस्रकवर्षमितं समाप्य रैवताचले शतोत्तरषत्रिद्भिः साधुभिः सहापाढशुक्लाटम्यां प्रभुमोक्ष गतः राजीमत्यपि एकवर्ष छद्मस्थत्वं पंचशतवर्ष च केबलिपर्याय पालयिचा सर्वायुरेको तरन वशतवर्षमितं नेमिन भक्त्वा प्रभोः पूर्वमेव मोक्षं गता । श्रीने मिपितरी च चतुर्थ देवलोके गती। अाग्रे प्रसंगत: श्री कृष्णद्वारिकासंबंधो लेशतः प्रदर्श्यतेएकदा विष्णुना श्रीने मये पृष्टं-हे स्वामिन् ! द्वारिकायाः केनांतो भविष्यति ? पुनः कीदृम्मे मरणं भविष्यति ? प्रभुणोक्तं-मदिराप्रयोगेण कुपितः कृष्णद्वीपायनपिद्वारिका प्रज्ज्वालयिष्यति । तद मरणं च ते वृद्धभ्रातृजराकुमारहस्तेन भविष्यति । तत् श्रुत्वा जराकुमारो विदेशे गत्वा बनमध्ये स्थितः । मदिरा च कृष्णेन द्वारिकातो बहिगिरिकंदरायां निक्षिप्ता । अर्थकदा सांबपद्यम्नादयः कुमारा नगरादहिः क्रीड़ाथ निर्गताः, तृषातुरैश्च तेः कंदरास्थमदिरापानं कृतं । तेनोन्मत्तीभूतस्तैस्तत्र तपस्तप्यमानो द्वीपायनपिट: । मदिरातः परवशीभूतैस्तस्तं 18111८२॥ दृष्ट्वा चितितमहोऽयं खत्वस्माकं नगरीसंहारको भविष्यतीति विचित्य ते सर्वेऽपि संभूय तमृषि निर्भत्स्यं ततो निष्कासयामासुः । क्रुद्धोऽथ स द्वारिकाज्वालन निदानं कृत्वा मृतोऽग्निकुमारेषु देवो जातः । तत आगत्य तेन षण्मासं यावद् द्वारिका ज्वालिता । तस्मिन् दावानले कृष्णबलदेवौ विना यादवप्रभृति सर्वेऽपि ज्वलिताः । अथ
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy