________________
1७२।।
अर्थकदा सांबप्रद्यानादिकुमारान स्वस्वखोभिः परिवेष्टिताननेकक्रीडाकूर्वाणान वोश्य शिवादेवी श्रीनेमि प्रति कथयति हे वत्स ! त्वमप्येकां वियं परिणीय मम मनोरथं सफलं कुरु ? तत् श्रुत्या श्रीनेमिस्वाच-हे मातः ! उचितां कन्यां विलोक्याहं कथयिष्यामीत्युक्त्वा मातरं स्वस्थीकृतवान् । अथ यशोमतीजोवोऽपराजिद्विम नामच्युत्वा श्रीउग्रसेनराजभार्या धारिणी, तस्याः कुक्षौ राजीमतीनामपुत्रीत्वे नोत्पन्नः । यथाक्रमेण वर्धमाना सा यौवनं प्राप्ता । पित्रा बहवो वरास्तस्या अर्थे विलोकिताः, परं राजीमत्या मनसि कोऽपि नायाति ।
अर्थकदा श्रीनेमिकुमारः कृष्णायुधशालायां समागतः । शाङ्गतुगदायुधांश्चो पायितुं लग्नन्तदा रक्षाकर्भणितंहे स्वामिन्नेषा क्रीडा भवद्धिर्न कर्तव्या, इमान्यायुधानि श्रीकृष्ण विहायान्यः कोऽयुत्पाटयिनं न शक्नोति । तत् श्रुत्वानंतशक्तियता श्रीनेमिप्रभुणा विनोदार्थ पांचयन्यं शंखमुत्याट्य तथा पूरितो यथा सर्वमपि नगरं क्षुब्धं । गिरिशृगाणि पतितानि, समुद्रोऽपि प्रोच्छलितकल्लोलव्याकुलो वभव । सभास्थित कृष्णबलभद्रावपि क्षुब्धो। ततः कृष्णेन भय प्राप्य तत्कारणगवेषणं कृतं । ज्ञाता च श्रोनेमिकृतक्रीडा । अथ विविवभाचितनोनिखितमानसो नारायणो बल भद्रादिसमन्वित आयधशालायामागतः । बलसंबंधिनिजहदग्रगतसंशयनिवारणार्थं च तेन श्रीनेमि प्रत्युक्तंहे बंधो ! आवां निज निजबलपरीक्षां कुर्वः । तदा श्रीनेमिप्रभः कृष्णस्याभिप्राय ज्ञात्वा तत्प्रति पन्नवान् । ततस्तौ द्वावपि बलभद्रादिपरिवारयती योग्यस्थानके समागतौ । अथ श्रीनेमिना शस्त्रादिभिरन्योन्ययुद्धानि विरुद्धानि विज्ञायोक्त-हे बंधो ! आवयोर्बाहुबलपरीक्षावाभ्यां कर्तव्या । कृष्णेनापि तत्प्रतिपन्नं । बलभद्राद्याः सर्वेऽपि