________________
श्री
शील
दानादिकुलक.
कुलक
वृत्तिः
नमिनाय कथा
||७८1
दशाहपांडवादयः सर्वेऽपि निजनिजबलोपेतास्तत्र समायाताः । तदा श्रीनेमिनाथकृते सोधर्मेन्द्रेण मातलिसारथियुतः सविरलंकृतः स्वरथः प्रेषितः । अथ लयोईयोरपि सैन्यं सौराष्ट्रमीमनि पंचासराने मिलि तं । जरासंधेन चक्रव्यहो रचितः, कृष्णेन च गरुडव्युहः कृतः । द्वयोः संन्ययोमहाभयंकरं युद्धं जातं, भूरिंगजतुरगरयभटानां विनाशो जातः । जरासंधेन जराविद्यया यादवानां सैन्यं निश्चेतनीभूतं विहितं । तदा श्रोनेमिप्रभोर्वचनतः करणेन धणेन्द्राराधनं कृतं । धरणेंद्रेण प्रकटीभूय कृष्णाय श्रीशंखेश्वरपार्श्वनाथप्रतिमा समर्पिता । ततः काणेन त प्रतिमाप्रक्षालनवारिणा सर्व निजसंन्यं सचेतनीकृतं । पुनर्दयोः सैन्ययोः परस्परं महायुद्ध जातं । अथ जरासंधो निजसैन्यं यादवकृतप्रहारतो निबलीभूतं विलोक्य कृष्णप्रति स्वकीयं ज्वालामालाकरालं चक्र मुमोच । तदा तच्चक करणं प्रदक्षिणोकृत्य समागत्य कृष्णकरे स्थितं । तदा कृष्णेनोक्त-हे जरासंध ! अधुनापि स्वं मम प्रणामं कुरु, यथा त्वां जीवत मुंचामि । तत् श्रुत्वा जरासंधोऽबददरे गोपाल ! लोखंडेनतेन कि गर्व करोपि? इत्युक्त्वा स | स्वयं करणं प्रति धावितस्तदैव कृष्णेन मुक्तं तचक्रं जरासंधस्य मस्तक छेदित्वा पुनः कृष्णहस्ते समागतं । देवजयजयाराव पूर्वक कृष्णोपरि पुष्पवृष्टिर्मुक्ता । नमश्चायं कष्णो वासुदेव इति चौदघोषणा कृता । अथवमनुक्रमेण खंडत्रयं सायित्वा श्रीकृष्णः परिवारयुतो द्वारिकायां समागत. । मानरिमारथिरपि श्रोनेमिनं प्रणम्य स्वस्थाने गतः । एवं श्रीकृष्णवासुदेवस्ता मुखेन राज्यं पालयति ।
अध ज्ञानत्रयसहितः श्यामवर्णो दशधतुर्देहधारी श्रीनेमिया वनावस्थायामपि विषयपराङ्मुत्रो बभूव ।