________________
शोल कुल कम्
दानादिकृलकवृत्तिः
।। २ ।। अथ शीलकुलकम् ॥
नेमिनाथ चरित्र
।।६।।
सोहागमहानिहिणो, पाए पणमामि नेमिजिणवइणो ।। बालेज भवनलेणं, जणंदणो जेण निज्जिणि १।।
च्याख्या-वालेनापि बाल्यत्वे वर्तमानेनापि येन प्रभुणा भुजवलेन स्त्रकीय हस्तवीर्येण जनार्दनः श्रीकृष्णो निजितस्तस्य सौभाग्यमहानिधेर्वालब्रह्मचारिणः श्रीनेमिनाथस्व जिनपतेश्चरणौ प्रणमामि ॥१॥ तस्य संक्षेपत्त | चरित्रमित्थं -
जंबूद्वीपे भरतक्षेत्रऽचलपुरनगरे विक्रमराजा राज्यं करोति, तस्य धारिणी भार्या, सा च सकलस्रीगुणरलंकृता । अन्यदा रागौ सुप्तया तयेत्थं स्वप्नं दृष्टं । प्रथमं तया सहकारतरदृष्टस्तत: केनापि पुरुषण तशागत्य तस्यै कथितं सांप्रतं मयषो वृक्षस्तवांगणे वप्तोऽस्ति, ततः कस्मिंश्चित्कालेऽहं तं वृक्षमन्या वास्यामि, अनया रीत्या नववारमहमेतं वृक्षं वप्स्यामि । तथैतत्फलादिकं दिनं दिनं प्रति वृद्धि प्रयास्यति । इति स्वप्नं दृष्ट्वा धारिणी
॥६२।।