SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ बोधित. परमश्रावकश्च कृतः । ततो विक्रमोऽनेकतीर्थयात्राः शत्रुजयतीर्थोद्धारं च कृत्वा श्रीजिनशासनप्रभावनां कृतवान् । कालांतरे सुवर्णपुरुषप्रसादेन तेन समस्ता पध्वी ऋणरहिता कृता, स्वकीयः संवत्सरश्च स्थापितः । विक्रमनपकुतदानादिवर्णनं ग्रंथांतरादबसे यं ।। इति विक्रमनपकथानकम् ।। ५७॥ तियलोयबंधवेहि, तभवचरिमेहि जिणवरिदेहि । कर्याकच्चेहि वि विन, संवच्छरियं महावाणं ॥१६॥ ___ व्याख्या-स्वर्ग मृत्युपाताललक्षणानां त्रिभुवनानां बंधवः परमसहोदरभूतैरतावता विजगद्धितकारकः, पुनः को दृशस्तद्भवचरितैस्तस्मिन्नेव भवे मोक्षगामिभिरेताहजिनवरेन्द्रस्तीर्थकरः, पुनः कीदृशैः कृतकृत्य. सर्वकार्यसिद्धिभिस्तीर्थकरदत्त सांवत्सरिक महादानम् ॥१६। तीर्थकरवाषिकदानविधिर्यथा-प्रथम देवा नगराहिनमंडपं रचयंति । तम्मध्ये स्वर्णसिंहासन मंडयंति, तत्र सूर्योदये भगवानागत्य पूर्वाभिमुख स्तिष्ठति । देवताः सर्व ग्राम नगरादौ 'यदिप्सितं तन्मार्गयध्व' इत्याद्युद्घोषणां कुर्वति । स्वामी तु सर्वेषां वांछित पुरयति । प्रतिदिवस मेका18| कोटीरष्टौ लक्षं च सुवर्ण प्रभुर्ददाति । एगंविधा सर्गतीर्थकराणां स्थितिर्जातव्या ।। सिरिसेअंतकुमारो, निम्सेअस्स सामिउ कह न होई । फासुअवाणपवाहो, पयासिउ जेण भरह मि ।।१७।। व्याख्या-श्री ऋषभदेवस्य प्रपौत्रः धेयांसकूमारो निःश्रेयसस्य मोक्षस्य स्वामी कथं न भवति, येन :प्रासुकदानप्रवाहः प्रकाशितोऽस्मिन् भरतक्षेप ।।१७।। अस्यां चतुर्विशतो येन जगन्मध्येऽन्नदानं प्रकाशितं स श्रेयांस-XI कुमारः प्रसिद्ध एव । दानेष्वनदानमपि प्रधानमस्ति अन्नदातः परस्तीर्थकरा अपि हस्तं प्रसारयति । अत्र विषये ॥५७॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy