________________
||३७||
त्वं पूर्वभवे गोपालोऽभूः । एकदा स्वया निजमातुः पार्श्वे क्षीरानं मागितं, तदा निर्धनत्वेन तत्तुभ्यं दातुमसमर्थया तया रुदनं कर्तुमारब्धं । प्रातिश्मिकस्त्रीभिर्दयया क्षीरानसामग्री तस्यै दत्ता, ततः क्षीरनं निष्पाद्य तया तुभ्यं परिवेषितं । इतो मासक्षपणोपवासी साधुस्तत्र समागतस्त्वया शुभभावपूर्वक चितितमस्मादर्घ द्विभाग वा सावे. ऽर्पयामीति विचित्य स्थाल्यो रेखा विहिता, पुनर्भावद्धितस्त्वया सकल मपि क्षीगन्नं साधवे दत्तं । पूर्व रेखाविधानतस्तवांत रायो जातः, पश्चाच सकलदानेन तब संपूर्णद्धिः प्राप्ता । याभिः प्रतिवेश्मिकामिः क्षीरसामग्री दत्ता, ता एता अावपि तव भार्याः संजाता: । एवं स्वपूर्वभववृत्तांत श्रुत्वा कयवन्नेन जातिस्मरणं प्राप्य वैराग्यतो गृहभार ज्येष्टपुत्राय समर्प्य बद्रव्यं सप्तक्षेत्रेषु दत्वा भार्यासहितेन दीक्षा गृहीता । निर्मलचारिणं प्रपाल्य स्त्रीसहितो देवलोक गतस्त तइयुत्वा मोक्षं गमिष्यति ।। इति दानकुलके कयवन्न ककया । घयपूसवच्छपूसा, महरिसिणो दोसलेसारहीणा । लद्धीइ सयलगच्छो-वग्गहगा सुहगई पत्ता ॥१शा
व्याख्या-गृहस्थगहं गत्वा वृतमानीय तेन यो गण पोषयति स साधुघुतपुप्यः कय्यते, एवं वस्त्रपुण्योऽपि । एतादृशो यौ ऋषीश्वरी दोषलवेनापि रहिती, लब्ध्या च सकलगच्छस्य भक्तिकारको शुभगति प्राप्तौ । एतादृशाः साधवोऽनके जाता: संति, गाथामध्ये साक्षात्राम कस्यापि नास्ति, अतोऽत्र कथा नो लिखिता, ग्रंथांतरादवसेया। जीवंतसामिपडिमाए, सासण विअरिउण भत्तीए । पञ्बइअगं सिद्धो, उदायणो चरमरायरिसी ॥१२॥ व्याख्या-जीवंतस्वामिनः श्रीमहाबीरस्य प्रतिमायाः पूजानिमित्तं भक्त्या प्रामादि दत्वा प्रांते दीक्षामादाय