SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ।।२७९।। रणक्षमः | श्री वीरप्रभुरत्र समवसृतः संभवति मया च यदि तस्मिन्मनुष्यभवे धर्मो न वृतस्तेनैवाहं नूनं तिर्यग्भवे समागतोऽस्मि । अतोऽद्यैव श्रीवीरप्रभुं वंदिष्यामीति विमृश्य स प्रभुवंदनमनोरथयुतो वाप्या बहिर्निर्गत्य सम वसरणे गमनोत्सुकः पथि गच्छति । इतः श्रेणिकराजापि प्रभुवंदनाय निजपरिवारयुतः समायाति तदा नृपाश्वपादतले समागतोऽसौ दर्दुरो मृत्वा शुभभावनया प्रथमदेवलोके दर्दुरांकनामा देवो जातस्तद्रेण सभायां श्रेणिक सम्यक्त्वप्रशंसाकृता । तत्परीक्षार्थं स ददुरांकदेवोज्वधिना प्रभुं राजगृहोद्याने समवसृतं विज्ञाय द्रुतं तत्रागत्य प्रभृं च वंदित्वा प्रभोः शरीरं चंद्रनादिद्रव्येण विलेपयति । श्रेणिस्तु देवमायातस्तं कुष्टिनं कुष्टरः प्रभुशरीरं च विलेपर्यतं पश्यति । तदा क्रुद्धेन श्रश्रेणिकेन तस्य ग्रहणार्थं निजसेवकानां संज्ञा कृता । इतः प्रभुणा च्छित्कृतं तदा तेन देवेनीक्तं त्वं म्रियस्व ? तदेव श्रेणिकेन छित्कृतं तदा तेनोक्तं त्वं चिरं जीव ? अभयकुमारस्य च्छित्कृत्यनंतरं तेनोक्तं म्रियस्व वा जीव ? ततो यदा कालककरिकेण च्छित्कृतं तदा तेनोक्तं त्वं मा म्रियस्व मा च जीव ? अथ भगवतो मरणकथनेन श्रश्रेणिकस्तस्योपर्यत्यंतं कुपितः । इतो देशनांते स यावदुत्थितस्तावत् श्रेणिककृतसंज्ञातस्तलारक्षास्तं गृहीतुं समायाताः । इतोऽसी गगनमार्गे समुत्पतितस्तदा विस्मितेन श्रश्रेणिकेनोक्तं-हे भगदन् ! किमेतदाश्वर्यं ? भगवता तस्य दर्दुशंकदेवस्य सकलं स्वरूपं निवेद्योक्तमयं हि देवस्तवेंद्र प्रशंसितसम्यक्त्वपरोक्षार्थमत्रागतोऽभूत् । किं च स कुष्टयपि नाभूत्, तथैव तेन मम शरीरमपि चंदनादिना लिप्तमासीत्, तस्कृत ।।२७९ ।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy