________________
दानादि-
वृत्तिः
।।२७४||
भाव वृष्टि कुर्वन् महादावानलं प्रकटीकृत्य सर्वजनपश्वादियुतं तं देशं ज्वालयामास । राजादिसर्वलोका भस्मीभूताः ।
कुलका पालकोऽपि मृत्वा सप्तमनरकं गतस्ततस्तदेशाटव्या दंडकारण्य मित्यभिधानं जातं, यत्राद्यापि तृणमात्रमपि न प्ररोहति । || इति श्रीभावनाकुलके स्कंदकसरिशिष्यकथा ।। सिरिवद्धमाणपाए, पूअंती सिदुबारकुसुमेहि । भावेणं सुरलोए, दुग्गयनारी सुहं पता ॥१।।
दुर्गता व्याख्या-श्रीवर्द्धमान चरणौ सिंदुबारकुसुमैर्भावेन पूजयंती दुर्गतानारी सुरलोके देवलोके सुखं प्राप्ता ) कथा ॥१४॥ तस्या: कथा चेन्थं--
एकदा श्रीईक्ष्वाकृदंशमक्ताफलोपमः केवलज्ञान विराजमानश्चतुर्दशसहस्रसाधुद्दिशसहस्त्र साध्वीभिश्चपरिवृतोऽनेकदारकवृंदैर्वदितपादपद्मः श्रीमहावीरप्रभुविहरन सन् काकंदीनगयीं समवसतस्तदा प्रभुपूजार्थ पुष्पादिपूजोपकरणसहिताननेकजनांस्तत्र गच्छतो दृष्टवकया जन्मदरिद्रिण्या स्त्रिया जनैक: अष्टो, यदि में जना क्व व्रजंतीति । तदा तेन पुरुषेणोक्तं जन्मजरामरणरोगशोकदुःखदारिद्रयाद्यनेकविधसंसारतापोपशमनकचंद्रतुल्यं श्रीमहावीर प्रभुं पूजयितुमेते जना व्रजति । तत् श्रुत्वाजसन्नसिद्धिकया तया निजमनसि चितितं यदहमणि श्रीवीरप्रभु पूजयिष्यामीति विचित्य साऽरण्यसुलभानि सिंदुवारकुसमानि गहीत्वा हर्षप्रफल्लहृदया निजजीवितं च सफलं मन्यमाना समवसरणसमीपे समागता ।
तदातिवृद्धत्वेन क्षीणे चायुषि तदैव तत्रैव स्थाने मृत्वा सा देवत्वं प्राप्ता । तदा तत्कलेवरं दृष्ट्वा सदया
२७४