________________
श्रो दानादि
कुलक
वृत्तिः
२७०
कोणिकपुत्रोदायिराज्ञा च तत्र पाटलीपुत्रनगरं स्थापितमिति ।
॥ इति श्रीभाव कुलकेऽनिकाचार्यपुचला
कथा !
पनरसयतावसाणं, गोय उनः मेग दिन्नदिक्खाणं ।। उपन्तकेवलनाणं सुहभावाणं नमो ताणं ||१२|| व्याख्या-कोडिन्नदिन्नसेवालप्रमुख पंचदशतापसानां श्रीगौतमस्वामिना दीक्षितानां केवलज्ञानं समुत्पन्नं, एवं विषेभ्यः शुभभावेभ्यस्तेभ्यो नमोऽस्तु ॥१ ॥ तेषां तापसानां कथा पूर्वमुक्तव ।
जीवस्स सरीराओ, भेयं नाउं समाहिपत्ताणं । उप्पाडियनाणाणं, खंदकसीसाण तेसि नमो ॥१३॥ व्याख्या- जीवस्य शरीराद्भेदमंतरं ज्ञात्वा समाधिप्राप्तानां शुभभावनां भावयतां सतां येषां स्कंदकाचार्यशिष्याणां केवलज्ञानं समुत्तनं, तेभ्यः श्रीस्कंदकाचार्यशिष्येभ्यो नमः ||१३|| तेषां कथा चेत्थं
श्रावस्त्वां नगर्या जितशत्रुनामा राजा बभूव । तस्य धारिणीरानीकुक्ष्युद्भवः स्कंदकनामा कुमार आसीत् । पुरंदरशाभिधाना च पुत्र्यभवत् । सा पुत्री कुंभकारनगराधीशदंडकाप्रिनागभूपेन सह राज्ञा परिणायिता, जाता च सा तस्य पट्टराज्ञी । अर्थकदा कानृपस्य पालकनामा पुरोहितः स्वस्वामिकार्यार्थ श्रावस्त्यां समागतः । स च महा मिथ्यात्वी जैनधर्मद्वेषी चाऽभव्योऽभूत् ।
एकदा राजसभामध्ये धर्मगोष्ठिजाता । तदा तेन दुष्टंन पालकेन जिनधर्मनिंदा कृता । तत् श्रुत्वा हृदि खिन्नेन स्कंदककुमारेण स पालको दयामूलजिनधर्मस्थापनपूर्वकं युक्त्या निस्तरीकृतस्तदा हृदयस्थद्वेषभावोऽपि स
भावः कुलकम्
पुष्प चूला
कथा
१२३७॥