SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रो दानादिकुलक वृत्तिः ॥ २४६॥ Koko स्तित्वेन च तस्य कल्कलचीरीति नाम दत्तं । धारिणी च तत्र सूतिरोगेण मृत्युमान । तदा सोमचंद्रोऽरण्यमहिषीणां दुग्धपानतस्तं वल्कलचीरिणं पोषयामास । क्रमेणासौ यौवनं प्राप्तो वनफलानयनादिभिर्निजपितुः परिचर्यां करोति, तत्र वीरहिते तपोवने वसन्नसौ त्रीनमापि न जानाति । अथ प्रसन्नचंद्रेण श्रुतं यशोधनप्रति मर्मको भ्रतारण्यवासी संजातोऽस्ति । परं तमत्रानीय मया तस्य राजभागो देय एवेति विचार्य तेन चित्रकारमाहूयोक्तं त्वया मम पितुपादपवित्रिते तपोवने गत्वा मेनुजन्त्र यथास्थितरुपमालेस्यात्र समागत्य तश्चित्रितरूपं मह्यं समर्पणीयं । चित्रकारोऽपि तत्र गत्वा युक्त्या तस्य यथान्थितरूपमालेख्य राज्ञोऽर्पयामास । कथितं च तेन हे राजन् ! स तेऽनुजो नूनमरगयमासी पशुरिवाष्टसंसारविभवों न कस्यापि जनस्य विश्वासं करोति । मयापि प्रच्छन्नं तरुकोटर स्थितेन फलाद्याहरणायागतस्य तस्येदं चित्रमा लेखितमस्ति । निजानुजस्य चित्रालिखितरूपं दृष्ट्वाऽवर्णनीय भ्रातृनेहाभूतांतःकरणों भूपो जगाद । अस्ति स कोऽपि सभामध्ये यो ममैनमनुजचंद्रमत्र समानीय ममामंदानंदोदधिमुल्लासयेत् ? तदा नापसशापभयात्सभास्थितजनमध्यात्केनापि तत्कार्य नांगीकृतं । किंत्वेकया विदग्धया वेश्यया राशे नमस्कृत्योक्तं हे स्वामिन्निदं भवदिप्सितं कार्यमहं नूनं करिष्यामीत्युक्त्वा सा निजगृहे समागता । अथ सा वेश्या स्वकीयसखीभिः सह कतिचित्पुरुषान सार्थे गृहीत्वा तापसा श्रमसमीपे वने समागता । पुरुषाच वृक्षोपरि प्रच्छन्नतया स्थिताः सोमचंद्रगमनागमनं विलोकयति । इतो वल्कलचीर्यपि फलादिग्रहणाय तत्र HONORORSCHODNCHT भावः कुलकम् प्रसन्नचत्र कथा ॥२४६४
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy