________________
१।२३७।१६
समागतस्तस्य धर्मोपदेशं श्रुत्वा विद्युद्गतिराज्ञा पुत्राय राज्यं दत्वा संयमं गृहीतं । अनुक्रमेण किरणत्रेगस्य पद्मावतीराज्ञीकुक्ष्युद्भवः किरणतेजोऽभिधानः पुत्रो बभूव । एकदा तत्र सुरगुरुनामामुनीश्वरः समागतस्तस्य च देशनां श्रुत्वा वैराग्यं प्राप्य राज्ञा किरणतेजसे राज्यं दत्वा दीक्षा गृहीता, पठितानि चैकादशांगानि । तपः प्रभावेण |चानेकलब्धयस्तस्य समुत्पन्ना । अथैकदासो मुनिराकाशमार्गेण पुष्करावर्त्तद्वीपे समागत्य तत्र शाश्वतचैत्यानि च वंदित्वा वैताढ्यपर्वते च समागत्य कायोत्सर्गेण तस्थौ । अथ स कमठजीवो नरकान्निःसृत्य तत्र वैताढयवने महासर्पो बभूव । तत्र यत्रतं मुनि दास सर्पों निजपूर्वभववरेण मुनिशरीरं वेष्टयित्वा दशप्रहा रान् दत्तवान् । मुनिरपि कालं कृत्वा द्वादशमे देवलोके गतः । सर्पोऽपि च दवदग्धः सन् पंचमे नरके गतः ।
अथ जंबूद्वीपे पूर्वविदेहे सुगंधलावतीविजये शुभंकराया नगर्या वज्रवीर्याभिधो राजास्ति । तस्य च लक्ष्मीवत्यभिधाना राज्ञी वर्त्तते । तस्याः कुक्षी द्वादशमदेवलोकाच्च्युतो किरणवेगजीवो वज्रनाभाभिधपुत्रत्वेनावतीर्णः । यौवनं प्राप्ताय तस्मै राज्यं दत्वा राज्ञा दीक्षा गृहीता । क्रमेण वज्रनाभोऽपि विजपुत्रचक्रायुधपुत्राय राज्यं दत्वा संयमं जग्राह । अधीतद्वादशांगो वज्रनाभमुनिरेकदा ज्वलनगिरिसमीपे कायोत्सर्गेण तस्थौ । अथ स सर्पजीव: पंचमनरकान्निःसृत्य संसारं च भ्रमित्वा तत्र भिलो जातस्तेन तं वाचंयमं कायोत्सर्गंस्थं दृष्ट्वा पूर्ववैरानुभावेन तं प्रति बाणं मुक्तं । तेन विद्धो मुनिरालोचनापूर्वकमनशनं विधाय मृत्वा मध्यमग्रैवेयके ललितांगनामा देवो बभूव । भिन्ना मुत्वा नरके गतः ।
॥ २३७॥