SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ।।२१५।। भोजनं मा । दृष्टेन के न पर गोधमादि कथं निपाते? तदा तस्तस्मै गोधूमक्षनिष्पनियिधिः कविता : द्रुतं गृहे समागतोऽसौ गोधूमेश्वभिलाषी वक: पत्रादिभिनिवारितोऽप्यर्धनिप्पन्नकंगुकोद्रवाद्युत्पाटितवान् । ततस्तेन तत्र गोधूमबपनेच्छातः कपः खनित. परं दध्यास्तानादुग्धमिव तस्मात्पानीयं न निःसुतं । ततो द्वाभ्यां भ्रष्टोऽसो पश्चात्तापपरी जातः । एवं हे स्वामित्वमप्येतानि सप्राप्रमुखानि परित्यज्य मोक्षसुखाभिलाषतः कदाचित्पश्चात्तापं प्रयास्यसि । जंवृकुमारणोक्त-हे कामिनि ! काकनुल्योऽहं नाम्मि । अथ विध्याचलाटव्यां नर्मद, भिधतटिनीतटे बद्धकहाती मतस्तदा कोऽप्यति मांसलोलुप: काकरतस्यापानद्वारतस्तस्कलेबरमध्ये प्रविश्य निजकुलीयमिव मन्यमानो मांसं स्वादयन रात्रिदिवा तत्रैव निवासं कृतवान् । इतो भीमग्रीष्मतापपरितम तदपानद्वार शुरक्रीभूयं संकुचितं, मरुदागानमार्गनिरंधनेन व्याकुलोभूतोऽयं काको वहिनिस्मरितुमनेकानुपायानकरोत् । इतो गभोरगर्जनप्रयाणभेरीभांकार दधिरीकृतदिग्भाग: सौदामिनीशाणोत्तीर्णनिशितासिकुतततिमंडितो भीमग्रीरमारिमपि निर्वलीकुर्वन्नाकृष्टभन्नगतमुशलपरिमितजलधाराशरधोरणीभीरणाभिमुख इव मेघमहीपतिः समायातः । तदा नर्मदापि मदाकुलकुल टागनेव दीर्णशेबालनीलोत्तरीया, विविधजलविभ्रमान् दर्शयंती, निजस्वच्छंदचारेण कुलद्वयमपि पातयंती, निजांगजानपि बाल वृद्धपादपान्मूलादुन्मूल्येतस्ततो निक्षेपयंती, उल्लललोलकल्लोलकरोच्छालनं कुर्वती, निजजनकादिराजहृदयमपि स्फोटयति, निजतुल्यचापल्योद्धतमन्यलघुनदीसखी. गणमपि साई नयंती, पथि निजनिवारणोद्यतानेकपदार्थानप्य वगणयंती निशोधुतघोरतमस्यपि निर्भयैव चचाल । ॥२१५॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy