SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ||१७॥ पानीयमानयितुं गताः । तस्मिन्नवसरे सौधर्मेंद्रस्यासनं प्रकंपितं । तदा स्वसमयं ज्ञात्वे द्रेणागत्य प्रभो राज्याभिषेक: ।। कृतः । सर्वश्रृंगार: शरोरं मंडितं । देवदेवांगनानां पर्पम्मिलिता । इनम्ते युगलिका जलमादाय समागताः । न प्रभोः शरोरमलंकारादिभिर्भषितं दृष्ट्वा विनयेन प्रभोश्चरणयोर्जलं सिंचितं । तेषां तद्विनयेन संतुष्टनद्रेण तत्र विनीताभिधाना द्वादशयोजनविस्तीर्मा नवयोजनपृथुला च नगरो स्थापिता । तस्यां वापीकपसरोवरमरिलायां त्रिभूमिकचतुर्भूमिकसप्तभूमिककविंशतिभूमिकाप्रासादा अशोभंत । पुनस्तत्र द्वात्रिंशत्कोटिसवर्णानां वृष्टिः कृता। १ उग्रा २ भोगा ३ राजन्याः ४ क्षत्रियाश्च ५ स्थापिताः, परं लोका अन्नन बिना बुभुक्षितास्तिष्ठति । कल्पवृक्षा अपि किंचिन्न ददति । तदा स्वामिना तेभ्यः शालिप्रमुखधान्यान्युपदशितानि । लोकारतान्यादाय भक्षयंति, परमपत्रत्वेन न जीर्णयंति, प्रत्युत तेषामुदरा णि तुदति, प्रभोरग्रे चागत्य स्वजठराणि से दर्शयति । इतश्च तत्र वंशघर्षणतोऽग्निरुत्पस्तन्नस्तदा भगवता तेषां प्रोक्तमेतानि धान्यान्यस्मिन्नग्निमध्ये पाचयित्वा यूयं भक्षयत ? तदा तै: शालिप्रमुखं सर्वमध्यग्नौ प्रक्षिप्त ज्वलितं च। तदा तैः प्रभारग्रे समागत्य प्रोक्तं म्वामिनयं देतालस्तु सर्वमपि भक्षयति, नः किंचिदपि पश्चान्न ददाति । तदा भगवता मृत्तिकातो घटादिनिर्माण तेभ्यो दशितं । एवं प्रभणा प्रथमं तेभ्यः पंच विज्ञानानि शिक्षापितानि. १ कुंभकार २ लोहकार ३ चित्रकार ४ कर्षक ५ नापितविज्ञानं च । तेषां प्रत्येकानां विशतिभेदा भवंति, एवं भेदशतं शिक्षापितं । पुरुषाणां द्वासप्ततिकला भरतादीनां शिक्षापिताः, वीणां चतुःषष्टिकला ब्राह्मीसंदर्यो: शिक्षापिताः । अष्टादशलीप्यक्षरकलागणितकला ।१७।।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy