________________
॥१९
॥
अथ बमदेवो देशांतरे भ्रमन बहनापविद्याधरद्विजव्यापारिणां द्वासप्ततिसहस्रकन्याः परिणीतवान् । प्रांते रोहिणीस्वयंवरे स ममुद्रविजयादीनां मिलित इत्यादिसबंधः पूर्व श्रीनेमिनाथचरित्र प्रोक्त एव । इति वसुदेवभोगप्राप्तिकरणे पूर्वभवकृत तपोमाहात्म्य मेन ज्ञेयम् । इति तपःकुलके वसुदेवकथा ।।
देवावि किंकरतं, कुणंति कुलजाइविरहिआणपि । तबमंतपभावेणं, हरिकेसीबलम्सब रिसिस्स ।।८।।
व्याख्या-हरिकेगीवलाभिधमनिवरस्येव तपोमंत्र प्रभावेण कुलजानिविरहितानामपि जनानां देवा अपि किकरत्वं कुर्वति ।।८। हरिकेशीबलमुनिकथा चेत्थं
हस्तिनागपूरे मोमदेवनामा पुरोहितो वैराग्यं प्राप्य साधनमीपे दीक्षा जग्राह । म निर्मल चारित्रं तु पालयति परं वयं द्विजोत्तमा इत्यादि कथयन् जातिमदं बहु कति । आयुपि संपूर्ण सनि स देवलोके गतस्ततश्च । च्युत्वा नोचकर्मोदयानिल प्रेरितश्नांडालकुले समवातरत् । तदा तम्य माता बहुजनमेव्यमानं फलितमातरं स्वप्ने ददर्श । जन्मानंतरं चित्रा बल इति तस्याभिधानं चक्र । हरिकेश्यभिधानं च तस्य गोत्रमभूत् । यौवनं प्रायैकदा पितृकृतापमानन दूनोऽयं विदेशे गतः । तत्र साधुपदेशं निशम्य वैराग्यं च प्राप्य स दीक्षां जग्राह । षष्माष्टम- 14 मासक्षपणादिविविधतपः कुर्वन विहरन मन्नेकदा स बाणारस्यामागत्य तिदुकनामयक्षालये स्थितस्तदा तस्य तपोवराग्यादिगुणगणरतीवप्रमुदितस्तिंदुकयक्षः सर्वदा तस्य सेवाकरणतत्परो जातः । अथैकदा तस्य केन चिन्मित्रयण तिदुकपाचे समागत्योक्तं भी मित्र संप्रति त्वं मम गृहे कथं न समागच्छसि ? तेनोक्तमधुना मम प्रासादे कश्चि