________________
1 नांगीकरिष्यामस्तत् श्रुत्वा नंदिपेणो वने गत्वात्मधातोत्सुको वभूव । इतस्तत्रस्थेनबेन साधुना स आत्मघातान्नि
यार्य प्रतिबोधितस्तदासौ दीक्षामादाय राष्टणरणके आचाम्लतपः कुर्वन् साधुवयावृत्त्यपरो बभूव । अर्थकदेंद्रेण ।।१८९॥
निजसभायां तस्य साधुर्वयावृत्त्यप्रशंसा कृता । तदा द्वौ मुरी तत्परीक्षणाय तत्रागतो तयोरेको ग्लानसाधरूपं विधाय नगराबहिः स्थितो द्वितीय श्च साधुरूपभृदुपाथये तत्समीपे समागतः ।
अथ नदिषेणो यात पाटपारणकपरो बभव, तावत्तेनागत्य कथितं-भो नंदिषेण ! नगराबहिरेकोऽतिसाररोगपीडितो मुनिः पतितोऽस्ति । तत् श्रुत्वा नंदिपंणो निजाहारपात्रमाच्छाच तेन सह द्रुतं तद्ग्लानसाधुसमीपे गतस्तदा तेन तस्य बहकठिनवचनानि जल्पितानि, परं क्षमापरेण नंदिषणेन तानि सर्वाणि सोढानि । ततो नदिषणेन तं प्रत्युक्त-हे महात्मन् ! यूयमुपानये समागच्छत । साधुनोक्तमहं गंतुमशक्तोऽस्मि । तदा नंदिषेणस्तं स्कंधे समारोप्योपाश्रयं प्रति चलितस्तदा पथि तेन मायिनोक्त-अरे पापिन् ! त्वं शनैः शनैर्वज । तव शीघ्रगमनेन मम दुःखं भवति । ततः क्षमानिधिनंदिषेणः शनैश्च चाल | पुनस्तेनोक्त-अरे दुष्ट ! तब शनैर्गमनेन मे शरीरं तापव्याकुलं भवति । तदा नंदिषेणेन चितितं नायमस्य ग्लातसाधोर्दोषः, कि तु ममैवायं दोष, इति विचित्य स तं क्षमयामास । अग्रे गच्छता तेन मायिसाधुना तस्य शरीरोपरि बिष्टा कृता, तथापि नंदिपेणस्तां चंदनलेपमिव मन्यते । क्रमेण स चोपाश्रये समागत्य तदेहशुद्धयर्थ जलमादातुं श्रावकगृहें गतः, परं सर्वत्र तेन देवेनानेषणा कृता । तथापि तमक्षुब्धं क्षमापरं च ज्ञात्वा तौ देवी प्रकटीभूय तच्चरणयोः पतितौ । निजा
८॥