________________
समागतः । तत्र तेन शय्यायां जलं बिना शफरीवेतस्ततो लुज्यमाना बदनाही?ष्ण नि:श्वासान निष्कासयंती नेत्राश्रुजलधागभिराीकृतशबावरणा निजपतिनामाक्षरमालां गणयंती चिरपतिविरहदःख शिथिलीभूतांगोपांगोजनासुंदरी दृष्टा । इतः पवनंजयो द्रुतं तत्र चंद्र इव प्रादुर्भय तन्मनोगतशोकतिमिरनिकर दूरीकृत्य चकोरमिव तामवर्णनो
यानंदानसितां चकार । तत. स्वानुभूत चक्रावाको वार्ता तस्य निवेद्य तया मह गाढलिंगनपूर्वक भोगविलासं विधाय ।। १६३।। स प्रभाते प्ररितु लग्नस्तदांजनगन्दर्योक्त-हे स्वामिनीव मया ऋतुस्नानं कृतमस्ति, ततः कदाचिन्मे गर्भो।
सत्तिसंभवोऽस्ति । एवं च सति लोका मां कलंकं प्रदास्यंति. तत् श्रुन्वा पवनंजयेनोक्त-हे प्रिये ! त्वं
चितां मां कुरु ? त्वरितमहं समागमिप्यामि, तथापीयं मम नामांवि ला मुद्रिका त्वमा रक्षणीया कार्यावसरे च सा PR दर्शनीयेत्युक्त्वा मुद्रिका च तस्यै दत्वा पवगंजयः प्रस्थितः । अथावाज नमुन्दरी निजपति बहुमानेन हृष्टा सती
गर्भ दधार । तृतीयमासे गर्भप्रकटीभवनतः श्वशुरादयस्तामसती मन्यमाना गृहानिष्कासयितुं प्रवृत्तास्तदांजनया तदभिज्ञानमुद्रिकादर्शनपूर्वकमुक्तं मम भर्तु व गर्भोऽस्ति, पर तैस्तद्वचनममन्यमानैः सा गृहानिष्कासिता ।
अथ सा धाथ्या सह नगरान्निर्गत्य पितृर्ग हे गमनोत्सुका जाता । परं तया चितितं अस्यामबस्थायां पितृगहे गमनमायनुचितमिति विचार्य सा वने एवं स्थिता निजकर्मोदयविपानं मन्यमाना जिनधर्मध्यानलीनमानसा वनफलानि भुजाना झरनिर्झरनिर्मलजल पिवंती च पूर्णावधौ पुत्ररत्नमजनयत् । इतस्तया बनमध्ये कश्चिदेको मुनिष्टस्तस्मै तया सपुत्रया वंदनं कृतं, मुनिनापि धर्मोपदेशो दत्तः, ततस्तया निजदुःखानि कथयित्वा मुनिः