SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ।। १०९ ।। तस्या अत्याग्रहं विज्ञाय सोऽपि तया सह प्रवहणारूढो द्वीपांतरं प्रति चलितोऽवगाहितश्व तेन भूयान् पंथा । अर्थकदा रात्रौ प्रवहणमध्ये केनचित्पुरुषेण गायनं कर्तुं प्रारब्धं । तन्निशम्य नर्मदा भर्तुरये कथितं हे स्वामिन् ! योऽयं पुरुषो गायति, तस्य शब्दानुसारेणाहं जानामि यदयं पुरुषों श्यामवणः स्थूलहस्तपादो दुर्बलदेहा, पांकितगुह्यस्थानी द्वाविंशतिवर्षप्रमाणो विशालहृदयश्चारित । तत् श्रुत्वा भर्त्रा चितितं नृनमियममनी ने नोदिय तोही वार्ता कथं जानीयात् ? अथ प्रभाते तेन स पुरुषो दृष्टः पुष्टञ्च तदा तत्सर्वमपि यथोक्त मिलित: or श्रेष्ठ निजहृदयोद्भूतकोघानलप वस रक्षणभस्मनाच्छाद्य स्थितम् । इतः कतिचिद्दिवसानंतरं राक्षसद्वीपमासाद्य नाविकः कथितं भो लोका! अहमत्र प्रवहणं स्थिरीकरोनि अयं राक्षसद्वीपः समायातः । यः कोऽपि जलधनादिग्रहणेच्छुर्भवेत्तेन तत् शीघ्रमेव ग्राह्यमित्युक्वा तेन प्रवहणं स्थिरीकृतं । सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीयं जलधनादिसंचयं चक्रुः । अथ महेश्वरेणापि तया नमंदमा सहोतीर्थ चितितं किमहमेतां दुःशोलां जलधौ निधानीकरोमि वा विषं दत्वा यमविकरीत्वं प्रापयामीति विचारयन् स तया सह क्रीडामिषेण कदलीकानने समागतः । सुप्तश्च क्षणं कदलीदलको मलशय्यायां । अथ तत्र नर्मदासुंदरी आंदोलितकदलीदलालिभिः सुरभिवनवातस्तूर्ण निद्रां प्राप्ता । एवं सुखसुप्तां तत्रैव त्रिमुच्च महेश्वरदत्तस्तूर्णं ततः सत्मुबा रत्नाकरतटमागत्ये प्रवहृणोपरि समारूढः । कथितं च तेन कपटकुटिलचेतसा नाविकादिलोकानां पुरो यन्मम महिला राक्षसंभंक्षिता । अहं च कथमपि प्रपलाय्यागतोऽस्मि, निशाचरप्रकराश्च पृष्टे समागच्छंति, ३१०९
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy