________________
१११०॥
निर्जरांगनागवेयं कस्य पुत्री? तेनोक्त-मित्र ! इयं जिनधर्मकतत्परस्य ऋषभसेनसार्थवाहस्यांगजास्ति, किं च जैन विना सोऽन्यस्मै कस्मैचिदपि निजांगजां नैव दास्यति । तत् श्रुत्वा स कपटश्रावकीभूय नित्यं जिनपूजासाधुवदनावश्यकादिवियापर: समजनि । अथ ऋषभसेनस्तं जिनधर्मपरायणं निजयामिण जात्वा तस्मै निजतनयां ददी।
अथायं रुद्रदत्त: श्वशुरमापृच्छय ऋषिदत्तामादाय चंद्रपुरनगरे समायातस्त्यत्तश्च तेन नत्र जिनधर्मः क्रमेण ऋविदत्तापि भर्तस्नेहनः संसर्गदोषेण जिनधर्मे शिथिला जाता । क्रमेणषा गभिणी जाता, संपूर्णसमये तस्या महेश्वरनामा पुत्रो जातः । क्रमेण सकलविद्याभ्यासं कृत्वा सं यौवनवयः संप्राप्तः । इतश्च ऋषिदत्ताया बृद्धभ्राता सहदेवाभिध आसीत् । तस्य सुन्दर्यास्या भार्या बभूव । तस्या एकदा नर्मदायां स्नानकरणार्थ दोहदः समुत्पन्न-10 स्ततः सहदेवसायंदाहः क्रयाणकानि समादाय सुन्दरीसहितो नर्मदोपकठे समागम तस्या दोहदं परयामास । तत्र व्यापारे बहुलाभं विज्ञाय तेन नर्मदापुरीत्यभिधानं नगरं संस्थाप्यक जनमंदिरमपि निर्मापितं । क्रमेण संपूर्णसमये तयेका पुत्री जनिता । श्रेष्ठिना पुत्रवत्तस्या जन्ममहोत्सवं कृत्वा नर्मदासुन्दरीति नाम दत्तं । अथ क्रमेण शशिलेखेव वर्धमाना सकलकलाकलापबंधुरा सा यौवनं प्राप्ता । अर्थकदा ऋषिदत्तया तस्या अवर्णनीयरूपलवणिमादि| गुणान् श्रुत्वा चितित, चेदेपा मम पुत्रस्य महेश्वरस्य पाणिग्रहणं कुर्यात्तदा मे मनोऽमिलापः सफलीभवेत् । परं 3 मा जिनधर्मपराङ्मुखों विज्ञाय मम भ्राता तां निजतनयां मम पुत्राय नंद दास्यतीति चितयंती सा विलापं कर्तुं लग्ना | तावदद्रुदत्तेन तत्कारणं पृष्टा सा निजहृदयगताभिलाषं कथयामास । तत् श्रुत्वा सोऽपि चिंतांचितचित्तः
IP