________________
१०३।।
धर्मकलीनो बुद्धदासाभिधानः श्रेष्ठी व्यवमायायं समागतः । व्यापारादिनिमित्तं गमनागमनप्रमंगतो जिनदायेन मह तस्य मैत्री जाता ! एकदा व्यापारार्थ जिनदासगहागतस्य बुद्धदासस्य हृदयं सुभद्रावदनं निरीक्ष्य चकोरलीलायितं प्राः । अथ सुभद्रागतमानसो बुद्धदासो निजगृहे समागतः । ततस्तेन कस्मै सबमित्राय स्वकीयाभिलाषो निवेदितः। मित्रेणोक्त-हे बुद्धदास ! जिनदासो जैनमिणं विनान्यस्मै कस्मंचिदपि स्वतनयां न दाम्यति । तत् श्रुत्या बुद्धदाल, कपटमाबजीमा निमं जिनकापरायणः प्रतिक्रमणादिक्रियातत्पर संजातः, सर्वदा मुनित्रंदनं कृत्वा धर्मकथाव्याख्यानादि शृणोति । एवं बुद्धदास जैनधर्म कचितं विलोक्यंकदा जिनदासेन हृष्टेन स्वयमेव निजांगजा सुभद्रा तस्मै परिणायिता । अथ तो दंपती तत्र मुखेन सांसारिकभोगान मुंजानी तिष्ठतः अथ कनिचिहिवमानंतरं बुद्धदासी बहुद्रव्यमुपायं मुभद्रामहितश्चंपायां गतः । तत्र जिनधर्मपरायणां सुभद्रां वीक्ष्य बुद्धधर्मानुयायो श्वशुरपरिवारस्तस्या उपरि द्वेषमहवत् । अत: सुभद्रा पृथगृहेऽवसत् । सुभद्रा इजिनधर्मानुरागिणी विज्ञाय जैनमुनयस्तस्या गहे आहाराद्यर्थ समागच्छति । तस्याः श्वश्रुननांदप्रभूतिपरिवारः सर्वदा माधोर्दुजन इव छिद्राण्य
न्वेषयति । एकदा बुद्धदासभगिन्या बृद्धदामाय कथितं-ह भ्रातस्तव भार्या दुःशीला ज्ञायते । तस्य गहे सर्वदा शबनमुनयः समागच्छति । तैः सह सैषा तव भार्या हास्यविनोदादिकुत हलानि करोति । तत् श्रुत्वा बुद्धदासन सामवगणय्योक्त-मम भार्या दुःशीला नवास्ति, यूयं सर्वे धर्मविरोधतस्तस्या उपरि द्वषं बहथ । किच ज्ञातवरणकरण धर्मा जनसाधवोऽपि कदापि दुःशीला न भवेयुः ।