________________
रत्नकरण्ड धावकाचार
पद्मराजस्य मंत्रिणो जाताः । कुम्भपुरदुर्गे च सिंहबलो राजा दुर्गबलात् पद्ममण्डलस्योपद्रवं करोति । तद्ग्रणचिन्तया पद्म दुर्बलमालोक्य बलिनोक्त किं देव ! दौर्बल्ये कारणमिति । कथितं च राज्ञा । तच्छ त्वा आदेशं याचयित्वा तत्र गत्वा बुद्धिमाहात्म्येन दुर्ग भंक्त्वा सिंहबलं गृहीत्वा व्याधुटयागतः । तेन पद्मस्यासौ समर्पितः । देव ! सोऽयं सिंहबल इति । तुष्टेन तेनोक्तं वाञ्छितं बरं प्रार्थयेति । बलिनोक्त यदा प्रार्थयिष्यामि तदा दीयतामिति । अथ कतिपयदिन विहरतले कपनाचार्यादयः सप्तशतयतयस्तत्रागताः । पुरक्षोभाद् बलिप्रभृतिभिस्तान् परिज्ञाय राजा एतद्भक्त इति पर्यालोच्य भयात्तन् मारणार्थ पद्मः पूर्ववर प्रार्थितः सप्तदिनान्यस्माकं राज्यं देहीति । ततोऽसौ सप्तदिनानि राज्यं दत्वांऽत:पुरे प्रविश्य स्थितः । बलिना च आतापनगिरौ कायोत्सर्गेण स्थितान् मुनीन् वृत्यावेष्टय मण्डपं कृत्वा यज्ञः कर्तु मारब्धः । उच्छिष्टसरावच्छागादिजीवकलेवरैयूं मैश्च मुनीनां मारणार्थमुपसर्गः कृतः । मुनयश्च द्विविधसंन्यासेन स्थिताः । अथ मिथिलानगर्यामर्धरात्रे बहिर्विनिर्गतश्रु तसागरचन्द्राचार्येण आकाशे श्रवणनक्षत्रं कम्पमानमालोक्यावधिज्ञानेन ज्ञात्वा भणितं महामुनीनां महानुपसर्गो वर्तते । तच्छु त्वा पुष्पधरनाम्ना विद्याधर क्षुल्लकेन पृष्टं भगवन् ! क्व केषां मुनीनां महानुपसर्गों वर्तते ? हस्तिनागपुरे अकंपनाचार्यादीनां सप्तशतयतीनां । उपसर्गः कथं नश्यति ? धरणिभूषणगिरी विष्णुकुमारमनिविक्रियद्धिसम्पन्नस्तिष्ठति स नाशयति । एतदाकर्ण्य तत्समीपे गत्वा क्षुल्लकेन विष्णुकुमारस्य सर्वस्मिन् वृत्तान्ते कथिते । मम किं विक्रिया ऋद्धिरस्तोति संचिन्त्य तत्परीक्षार्थ हस्तः प्रसारितः । स गिरि भित्वा दूरे गतः । ततस्तां निर्णीय तत्र गत्वा पद्मराजो भणितः । किं त्वया मुनिनामुपसर्गः कारितः । भवत्कुले केनापीदृशं न कृतं । तेनोक्त कि करोमि मया पूर्वमस्य वरो दत्त इति । ततो विष्णुकुमारमुनिना वामन ब्राह्मणरूपं धृत्वा दिव्यध्वनिना प्राध्ययनं कृतं । बलिनोक्त किं तुभ्यं दीयते । तेनोक्तं भूमेः पादत्रयं देहि । ग्रहिलाह्मण बहुतरमन्यत् प्रार्थयेति वारं वारं लोकण्यमानोऽपि तावदेव याचते । ततो हस्तोदकादिविधिना भूमिपादत्रये दत्तं ते कपादो मेरी दत्तो द्वितीयो मानुषोत्तरगिरी तृतीयपादेन देवविमानादीनां क्षोभं कृत्वा बलिपृष्ठे तं पादं दत्वा बलि वद्ध्वा मुनीनामुपसर्गो निवारित: । ततस्ते चत्वारोऽपि मंत्रिण: पद्मस्य भयादागत्य विष्णुकुमारमुनेरकम्पनाचार्यादीनां च पादेषु लग्नाः । ते मंत्रिणः थावकारच जाता इति ।।७।।