________________
६० ]
रत्नकरण्ड श्रावकाचार
कि बारिषेण क्या चारित्र से विचलित होकर आ रहा है ? परीक्षा करने के लिये उसने दो आसन दिये-एक सराग और दूसरा वीतराग। वारिषेण ने वीतराग आसन पर बैठते हुए कहा कि हमारा अन्तःपुर बुलाया जावे। महारानी चेलिनी ने आभूषणों से सजी हुई उसकी बत्तीस स्त्रियाँ बुलाकर खड़ी कर दी । तदनन्तर वारिषण ने पुष्पडाल से कहा कि 'ये स्त्रियां और मेरा युवराज पद तुम ग्रहण करो।' यह सुनकर पुष्पडाल अत्यन्त लज्जित होता हुआ उत्कृष्ट वैराग्य को प्राप्त हुआ तथा परमार्थ से तप करने लगा।
वात्सल्ये विष्णुकुमारो दृष्टान्तोऽस्य कथा
अवन्तिदेशे उज्जयिन्यां श्रीवर्मा राजा, तस्य बलिबृहस्पतिः प्रह्लादो नमुचिश्चेति चत्वारो मंत्रिणः । तत्रैकदा समस्तश्रु ताधारो दिव्यज्ञानी सप्तशत मुनिसमन्वितोऽकम्पनाचार्य आगत्योद्यानके स्थितः । समस्तसंघश्च वारित: राजादिकेऽप्यायते केनापि जल्पनं न कर्तव्यमन्यथा समस्तसंघस्य नाशो भविष्यतीति । राज्ञा च धवलगहास्थितेन पूजाहस्तं नगरीजनं गच्छन्तं दृष्ट्वा मंत्रिणः पृष्टाः क्वायं लोकोऽकालयात्रायां गच्छतीति । तरुक्तं क्षपणका बहवो बहिरुद्याने आयातास्तत्रायं जनो याति । वयमपि तान् दृष्ट्र गच्छाम इति भणित्वा राजापि तत्र मंत्रिसमन्वितो गतः । प्रत्येके सर्वे वन्दिताः । न च केनापि आशीर्वादो दत्तः । दिव्यानुष्ठानेनाति निस्पृहास्तिष्ठन्तीति संचिन्त्य व्याधुटिते राज्ञि मंत्रिभिर्दुष्टाभिप्रायरुपहासः कृतः । बलीवर्दा एते न किंचिदपि जानन्ति, मूर्खा:दम्भमौनेन स्थिता: । एवं बुवाणगच्छद्भिरने चर्या कृत्वा श्र तसागरमुनिमागच्छन्तमालोक्योक्तं 'अयं तरुणबलीवर्दः पूर्णकुक्षि रागच्छति' । एतदाकर्ण्य तेन ते राजाग्रेऽनेकान्तवादेन जिताः। अकम्पनाचार्यस्य चागत्य वार्ता कथिता । तेनोक्त सर्वसंघस्त्वया मारितः यदि वादस्थाने गत्वा रात्री त्वमेकाको तिष्ठसि तदा संघस्य जीवितव्यं, तव शुद्धिश्च भवति । ततोऽसौ तत्र गत्वा कायोत्सर्गेण स्थितः । मंत्रिभिश्चातिलज्जित: ऋद्धैः रात्रौ संघ मारयितु गच्छद्भिस्तमेकं मुनिमालोक्य येन परिभवः कृतः स एव हन्तव्य इति पर्यालोच्य तद्वधार्थं युगपच्चतुभिः खङ्गा उद्गूर्णाः । कम्पित नगर देवतया तथैव ते कोलिताः। प्रभाते तथैव ते सर्वलोकदृष्टाः । रुष्टेन राज्ञा क्रमागता इति न मारिता गर्दभारोहणादिकं कारयित्या देशानिर्घाटिता। अथ कुरुजांगलदेशे हस्तिनागपुरे राजा महापद्मो रानी लक्ष्मीमती पुत्री पो विष्णश्च । स एकदा पद्माय राज्यं दत्वा महापद्यो विष्णुना सह श्र तसागर चन्द्राचार्यस्य समीपे मुनितिः । ते च बलिप्रभृतय आगन्ध