________________
रत्नकरण्ड श्रावकाचार
[ १७
विशेषेऽपि तद्देहस्थितेरकवलाहारपूर्वकत्वं किं न स्यात् । वेदनीयसद्भावात्तस्य बुभुक्षोत्पत्त भॊजनादौ प्रवृत्तिरिव्युक्तिरनुपपन्ना मोहनीयकर्मसहायस्यैव वेदनीयस्य बभक्षोत्पादने सामयति । 'भोक्तुमिच्छा बुभुक्षा' सा मोहनीयकर्मकार्यत्वात् कथं प्रक्षीणमोहे भगवति स्यात् ? अन्यथा रिरंसाया अपि तत्र प्रसंगात् कमनीयकामिन्यादि सेवाग्रसक्त रीश्वरादेस्तस्याविशेषाद्वीतरागता न स्यात् । विपक्षभावनावशाद्रागादीनां हान्यतिशयदर्शनात कैवलिनि तत्परमप्रकर्षप्रसिद्धीतरागनास हवे गोमनामयोग तत्र कि न स्यात्, तद्भावनातो भोजनादावपि हान्यतिशयदर्शनाविशेषात् । तथाहिएकस्मिन् दिने योऽनेकवारान् भुक्ते, कदाचित् विपक्षभावनावशात् स एव पुनरेकवारं भुक्ते । कश्चित् पुनरेकदिनाधन्तरित भोजन:, अन्यः पुनः पक्षमाससंवत्सरान्तरितभोजन इति । कि च बभक्षापीडानिवृत्ति जनरसास्वादनाद्भवेत् तदास्वादनं चास्य रसनेन्द्रियात् केवलज्ञानाद्वा ? रसनेन्द्रियाच्चेत् मतिज्ञानप्रसंगात् केवलज्ञानाभावः स्यात् । केवलज्ञानाच्चेत् किं भोजनेन ? दूरस्थस्यापि त्रैलोक्योदरवतिनोरसस्य परिस्फुटं तेनानुभवसम्भवात् । कथं चास्य केवलज्ञानसम्भवो भुजानस्य श्रेणीत: पतितत्वं प्रमत्तगुणस्थानवतित्वात् । अप्रमत्तो हि साधुराहार कथामात्रेणापि प्रमत्तो भवति । नाहन्भुजानोऽपोति महच्चित्रम् । अस्तुतावज्ज्ञानसम्भवः तथाप्यसौ केवलज्ञानेन पिशिताद्य शुद्ध द्रव्याणि पश्यन् कथं भजीत अन्तराय प्रसंगात् । गृहस्था अप्यल्पसत्त्वास्तानि पश्यन्तोऽन्तरायं कुर्वन्ति, किं पुनर्भगवाननन्तबीर्यस्तन्नकुर्यात् । तदकरणे वा तस्य तेभ्योऽपि हीनसत्त्वप्रसंगात् । क्षुत्पीडासंभवेचास्य कथमनन्तसौख्यं स्यात् यतोऽनन्त चतुष्टयस्वामिताऽस्य । नहि सान्तरायस्यानन्तता युक्ता ज्ञानवत् । न च बुभुक्षा पीडैव न भवतीत्यभिधातव्यम् 'क्षुधासमा नास्ति शरीर वेदना' इत्यभिधानात् । तदलमति प्रसंगेन प्रमेयकमलमार्तण्डे न्यायकुमुदचन्द्र च प्रपंचतः प्ररूपणात् ।। ६ ।।
आगे, वे कौनसे दोष हैं जो आप्त में नष्ट हो जाते हैं, ऐसी आशंका उठाकर उन दोषों का वर्णन करते हैं----
क्षत्पिपासेति-यस्य (जिसके) (क्षुत्पिपासाजरातकजन्मान्तकभयस्मयाः ) भूख, प्यास, बुढ़ापा, रोग, जन्म, मृत्यु, भय, गर्व (रागद्वेषमोहाः) राग, द्वेष, मोह और (च) चिन्ता, अरति, निद्रा, विस्मय, मद, स्वेद और खेद ये अठारह दोष (न) नहीं हैं (स:) वह (आप्तः) आप्त-सच्चा देव (प्रकीर्त्यते) कहा जाता है ।