________________
१४२ ]
रत्नकरण्ड श्रावकाचार असत्य वचन का त्याग करता है। बिना दिये, लोभ के वश छल-कपट करके दूसरे के धन का हरण करने का त्याग करना अचौर्याणुव्रत है। अपनी विवाहिता स्त्री को छोड़कर समस्त स्त्रियों के साथ मैथुन अभिलाषा का त्याग करना ब्रह्मचर्य-अणुव्रत है । तथा दस प्रकार के परिग्रह में मूळ भाव का त्याग करके परिग्रह का परिमाण करके उससे अधिक का त्याग करता परिग्रहारिमा पुरत है। लोपः में भी इन पापों के करने वाले को दण्ड दिया जाता है, इसलिए भी इनको स्थूल पाप कहते हैं ॥६॥५२॥
तत्राद्यव्रतं व्याख्यातुमाह-- संकल्पात्कृतकारितमननाद्योगत्रयस्य चरसत्त्वान् । न हिनास्ति यत्तदाहुः स्थूलवधाद्विरमणं निपुणाः ॥७॥
'चरसत्त्वान्' त्रसजीवान् । 'यम्नहिनस्ति' । तदाहुः 'स्थूलवधाद्विरमणं'। के ते? 'निपुणाः' हिंसादि विरतिवृतविचारदक्षाः । कस्मान्न हिनस्ति ? 'संकल्पात' संकल्पं हिंसाभिसंधिमाश्रित्य । कथंभूतात् संकल्पात ? 'कृतकारितानुमननात्' कृतकारितानुमननरूपात् । कस्य सम्बन्धिनः ? 'योगत्रयस्य' मनोवाक्कायत्रयस्य । अत्र कृतवचनं कर्तु: स्वातंत्र्यप्रतिपत्त्यर्थं । कारितानुविधानं परप्रयोगापेक्षमनुवचनं । अनुमननवचनं प्रयोजकस्य मानसपरिणाम प्रदर्शनार्थं । तथा हि-मनसा चरसत्त्वहिंसा स्वयं न करोमि, चरसत्त्वान् हिनस्मोति मनःसंकल्पं न करोमीत्यर्थः । मनसा चरसत्त्वहिंसामन्यं न कारयामि, चरसत्त्वान् हिंसय-हिंसयेति मनसा प्रयोजको न भवामीत्यर्थः । तथा अन्य चरसत्त्वहिंसां कुर्वन्तं मनसा नानुमन्ये, सुन्दरमनेन कृतमिति मन: संकल्पं न करोमीत्यर्थः । एवं वचसा स्वयं चरसत्त्वहिंसां न करोमि चरसत्त्वान हिनस्मीति स्वयं वचनं नोच्चारयामीत्यर्थः । वचसा चरसत्त्वहिंसा न कारयामि चरसत्त्वान् हिंसय हिंसयेति वचनं नोच्चारयामीत्यर्थः। तथा वचसा चरसहिंसां कुर्वन्तं नानुमन्ये, साधुकृतं त्वयेति वचनं नोच्चारयामीत्यर्थः । तथा कायेन चरसत्त्वहिंसां न करोमि, चरसत्त्वहिंसने दृष्टिमूष्टिसन्धाने स्वयं काय व्यापार न करोमीत्यर्थः। तथा कायेन च रसवहिसां न कारयामि, चरसत्त्वहिंसने कायसंज्ञया परं न प्ररथामीत्यर्थः । तथा चरसत्वहिंसा कुर्वन्तमन्यं नरवच्छोटिकादिना कायेन नानुमन्ये । इत्यक्तहिंसाणुनतम् ।।७।।
आगे, प्रथम अहिंसाणुव्रतका व्याख्यान करने के लिए कहते हैं--