________________
जिह्वेन्द्रिये रसलोलपकथा समाप्ता ॥ - वसन्तपुरे जितशवपः, सुकुमालिका राजी, तस्याः कोमलस्पर्शेऽत्यासक्तो नृपो देशराज्यपरिजनचिन्ता त्यक्तवान् । ततो
मन्त्रिभिस्सरानीको निद्राभरे बद्ध्वा महावने मुक्तः, तत्सुतो राज्ये स्थापितः । अथ तयोर्मार्गे महाष्टव्यां गच्छतो देवी परि15 श्रान्ता वृषिता पुरो गन्तुं न शक्नोति । राजा ता एकत्र स्थापयित्वा सवत्र गवेषयन् यावज्जलं न लभते तावत्क्षुरिकया स्वबाहु
भ्यां शोणितं निष्कास्य पुटिकायां क्षिप्त्या मूलिकाक्षेपेणाच्छं विधाय पायतिस्म । ततो दृढं क्षुधिता जाता सा, अन्यस्याहारस्याभावे निजोर्वोर्मासं छित्त्वा संरोहणमूलिकया व्रणरोथं कृत्वा दवाग्नौ भर्जयिस्वा शशादिमांसच्छलेन राज्ञा सा भोजिता । एवं गङ्गातीरे क्वचिनगरे प्राप्तो नृपो देच्याभरणमूल्येन वाणिज्यं कुरुते । अन्यदा देवी प्राह-पूर्वमह सखिभिन नागीताद्यर्विनोदिता तदिदानी कथमेकाकिनी तिष्ठामि ?, सत्कमपि मानुष मे सखायं कुरु, ततो नृपेणायं कलावानिति विचिन्त्य पङ्गुहे स्थापितः, न पुनरिदं ज्ञातम्-यथा वनेषु वल्ल्यः प्रत्यासत्रमेव तरुमाश्रयन्ति आम्र वा निम्ब वा, इति नार्योऽपि सगुणमगुणं वा नीचमुसम | वा आसनमेव पुरुषं भजन्ते, ततः पङ्गुस्वरादिमोहितया तेनैव समं लुब्धया अन्यदा गङ्गातीरे गतो नृपः प्रेर्य जले क्षिप्तः क्यापि
तटलग्नः श्रान्तः सुतस्तरुतले । पुण्येन छाया तदुपरितो नापसरति । तत्रच तत्पुरनृपे अपुत्रे मृते दिव्यैरभिषिक्तो राजा जातः । सकमालिकाऽपि हस्तगत द्रव्यं भुक्त्वा पदचोरलके क्षिप्त्वा भिक्षा मार्गयति. पडाः प्रतिग्रहं गीतं गायति. प्रतिपर च हिण्डमाना दैवाज्जितशत्रनृपपुरे प्राप्ता, राज्ञा गवाक्षस्थेन दृष्टा, आकार्य पृष्टा, भूमिस्था प्राह-पितृदेवत्राह्मणैरेष एव दत्तो भर्ता, ततः शीलं पालयन्ती पतिव्रताऽहं । नृपः प्राह-" बाह्रो रुधिरमापीतं, उार्मासं च भक्षित । गङ्गायां वाहितो भर्ता,
reAMERAHESA KAPLACES