________________
"सेटिं विलग्गओ तं, विसुद्धमाणं तओ चुअंतस्स । वह संफिलिसममाण, परिणाम विसेसे विनेयं ॥१॥" श तथा यथासायपिति, गणा-यमलोके ख्यातं-प्रसिद्धमकपायं भवति चारित्रमिति तथैव पत्तद्यथाख्यात, अथारुयातमिति द्वितीय नाम, तस्यायमन्वयः-अथ शब्दो यथाथै, आङभिविधौ, याथातथ्येनाभिविधिना च यख्यातं अकषायचारित्रमिति तदथाख्यातं, उक्तं च--"अहस हो जाहत्थे, आङोऽभिथिहीए कहिअमावायं । चरणमकमायमुदिअं, तमहवायं जहवायं ॥१॥" ___इदं च द्विधा छानस्थिक कैवलिकं च, तत्र छानस्थिकं उपशान्तमोहगुणस्थानके क्षीणमोहगुणस्थानके वा, कैवलिकं च सयोगिक
बलिभवमयोगिकेवलिभवं चेति । चरण-चारित्र, कथम्भृतं ? इत्याह-सुराश्च मनुजाश्च सिद्धिश्च, तासां सुख शकचक्रवादिभोमजितं PIनिरुपमस्वाभाविकपरमानन्दरूपं, तत् क्रियतेऽनेनेति करणं, एतश्च यो ग्रहीतुं-आसेवितुमर्हति, "जे" पादपूरणे, तमई समासेन-सङ्केपेण | | वक्ष्ये इति गाथार्थः ॥ ११९ ।। चरणाधिकारिपु ताबद्देशचरणाधिकारिणं निरूपयभाहसंवेगभाविअमणो, सम्मत्ते निश्चलो थिरपइन्नो । विजिइंदिओ अमाई, पनवणिजो किवाल्लू अ ॥ १२० ॥ जइधम्मम्मि वि कुसलो, धीमं आणालई सुसीलो । विनायतस्तरूवो, अहिगारी देसविरईए ॥१२१॥ आ व्याख्या ---संवेगभावितमनाः सम्यक्त्वे निश्चलः स्थिरप्रतिज्ञो विजितेन्द्रियोऽमायः प्रज्ञापनीयः, अकदारवीत्यर्थः, कृपालुश्च । का यतिधर्मऽपि कुशलः, उक्त च-"नाएऽणगारधम्मे, मावगधम्मे भवेज जोगो"त्ति । [तथा धीमान-तीर्थान्तरीयैरक्षोम्यो निपु
बुद्धिः] आज्ञारुचिः-आशाग्राह्यनिगोदादिजीवसत्ताङ्गीकारकः, सुशीलो, विज्ञाततत्स्वरूपो-ज्ञातदेशचरणस्वरूपः, उपलक्षग चैतेऽन्येऽपि