________________
प्राप्तयौवनः स्वयंवरायातद्वात्रिंशत्कन्याः परिणीय तद्योग्यान् द्वात्रिंशत्प्रासादान् मनोहरान् मध्ये स्त्रोतुङ्गभवनकलितान् कारयित्वा तामिः समं यावद्भोगान् मुङ्क्ते, तावत् तद्देहे कुष्ठादयो महारोगा अभूवन् । अनेकवैद्यौषधमन्त्रतन्त्रादिभिर्गुणाभावे कुमारेण वेदनासन पुरानहिःस्वसप्रभाव धनञ्जययक्षस्य महिषशतं मानितं । अथ तस्मिन्नेव दिने तत्र विमलकीर्त्तिः केवली समागात् कुमारोऽपि पित्रा सह वन्दनार्थं गतः, केवलप्रभावादुपशान्त व्यथोऽभूत। राजा पुत्रस्य रोगकारणं पृष्टः श्रीकेवली ग्राह-पूर्व (अपर) विदेहे रत्नस्थलपुरे पद्ममुखी नृपो नास्तिकः, अन्यदा मृगयां गतः कायोत्सर्गस्थ मुनिमेकमालोक्य पापात्मा बाणैर्जवान । शुभध्यानेन मुनिः सर्वार्थसिद्धिविमानेऽगात् । राजा लोकधिकारितो लोकान्मारयन्मन्त्रिसामन्तः काष्ठपञ्जरे प्रक्षिप्य निष्कासितः, तत्पुत्रः पुण्डरीको राज्ये स्थापितः । ततः स नृपसर्वत्र धिकारितः केनापि तापसेनावज्ञां कुर्वन् तेजोलेश्यया दग्धः सप्तमं नरकं गतः । ततः स्वयम्भूरमणमत्स्यो भूत्वा सप्तमनरके गतः, ततो मत्स्यः, ततः षष्ठनरके, ततश्चाण्डालखी, ततः प्रष्ठनरके, तत उरगो भूत्वा पञ्चमनरके, ततो मत्स्यः, पञ्चमनरके, ततः सिंहः, चतुर्थनरके, ततो व्याघ्रचतुर्थनरके, ततः श्येनस्तृतीयनरके, पक्षी, तृतीय नरके, सरीसृयो, द्वितीयनरके, पुनः सरीसृपो, द्वितीयनरके, ततो मत्स्यः, प्रथमनरके, पुनर्मत्स्यः, प्रथमनरके, ततः पृथिव्यादिष्वनन्तोत्सर्पिणीकालो गतः । ततो वसन्तपुरे सिन्धुदत्तवणिक्पुत्रो, बालतपः कृत्वा तव पुत्रोऽभूद्, इति श्रुत्वा कुमारस्सञ्जातजातिस्मरणस्संविप्रः प्रतिपभसम्यक्त्व मूलद्वादशवतो विगतवेदनो स्वगृहेऽगात् । क्रमेण राजाऽभूत् । धनञ्जययक्ष्याचितान्महिषान्न दस । ततस्तेनानेकधोपसर्गितोऽपि दयापरो यावन दते, तावत्सेनैव यक्षेण तद्गुणहृष्टेन कृता पुष्पवृष्टिः, प्रशंसितः कुमारस्य दयापरो धर्मः सम्यक्त्वनिश्चयश्च । ततो यक्षेण कृतसान्निध्यः साधितसकलभूवलयः 'कदाचित्पुराहि कायोत्सर्गस्थ सोमारूपं मुनिं दवा साकोपो महिभिः पुनः २ महत्वधिमा ज्ञातमवचनद्वित्वेन तेन मुनिना सती ।