SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ -प्रवचनसारोद्वारे सटीके द्वितीय: खण्ड : ॥४०४॥ एत एव चतुर्दश अमलसहिताः पञ्चदशविधाः । न विद्यते मलः इव मलो - निसर्गनिर्मलजीव मालिन्यापादन हेतुत्वादष्टप्रकारं कर्म येषां तेऽमलाः- सिद्धाः । तथा येऽण्डज-रसजादयः पूर्वमष्टौ जीवभेदा मणितापर्याप्तपर्याप्तभेदतः षोडश भवन्ति ||४०|| एत एव षोडश अकायेन - सिद्धेन युक्ताः सप्तदशविधाः । तथा पूर्वोक्ता 'नपुंसकादिभेदा-नारकनपुंसक-स्त्रीषु नपुंसकतिर्यक्स्त्रीषु नपुंसकमानव-स्त्रीषु वेददेवलक्षणा नवविधा अपि जीवाः प्रत्येकमपर्याप्ताः पर्याप्ता सन्तोऽष्टादश भेदाः । तथा ते एव चाष्टादश अकर्मभिः सिद्धैयु क्ता एकोनविंशतिः ॥४१॥ पूर्व ये पृथिव्यादयो दशविधा जीवा भणिताः, त एवाऽपर्याप्त पर्याप्तभेदाय विंशतिसङ्ख्या भवन्ति । तथा तैरेव पृथिव्यादिभिर्विशति सङ्ख्यै र्भेदे र शरीरयुतैः - सिद्धसहितैः सद्भिरेकविंशतिर्जीव मेदा भवन्ति ||४२ || पृथिव्यप्तेजोवाय्वनन्त वनस्पतयः पञ्च प्रत्येकं सूक्ष्म बादरमेदतो दश भवन्ति । ते च सप्रत्येकाःप्रत्येक वनस्पतिसहिता एकादश, द्वित्रिचतुरसंज्ञिसंज्ञिचेन्द्रियाश्च पश्च मिलिताः षोडश, एते च प्रत्येकपर्या पर्याप्तभेदभिन्ना द्वात्रिंशद्भवन्ति । इयमत्र भावना - पृथिवीकायो द्विधा - सूक्ष्मो बादरव, पुनरेकैको द्विधा - अपर्याप्तः पर्याप्तश्चेति चतुर्विधः पृथ्वीकायः । एवं जला ऽनल - वायवोऽपि । वनस्पतिर्द्विधा - साधारणः प्रत्येकव, तत्र साधारणो द्विधा-सूक्ष्मो बादरश्वः पुनरेकैको द्विधा - अपर्याप्तः पर्याप्तश्व, प्रत्येकस्तु बादर एव स चापर्याप्त पर्याप्तभेदेन द्विविध इति षोढा वनस्पतिकायः । द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाः १ नपुंसका नारक तिर्यक स्त्रीपुन्नपुंसक तियेक स्त्री नपुंसक मानवस्त्रीपु' देवदेवलक्षणा-सि ॥ २ द्विचतुरिन्द्रियाः पञ्चेन्द्रियाः- सि । द्वित्रिचतुरिन्द्रियपञ्चेन्द्रिया:- वि. ॥ २१४ द्वारे जीवसङ्ख्याकुलकम् गाथा १२३२ १२४८ प्र. आ. ३५५ ॥४-४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy